संस्कृत-शब्दकोशः

वारंवारम् वारवृषा

वारविलासिनी

शब्दकल्पद्रुमः

वारविलासिनी || स्त्री (वाराणां जनसमूहानां विलासिनी स्त्री । यद्वा, वारान् विलासयतीति । वि + लस + णिच् + णिनिः । ङीप् ।)
वेश्या । इति शब्दरत्नावली ॥ (यथा, कथासरित्- सागरे । १२ । ७८ । “अस्तीह मथुरा नाम पुरीकंशारिजन्मभूः । तस्यां रूपनिकेत्यासीत् ख्याता वारविला- सिनी ॥”)



Correction: