वाचस्पत्यम्
वाराणसी || स्त्री वरणा च असी न सोसात्वेनास्त्यस्या अण् पृषो० काशीपुर्य्यां हेम० । पर्पा० वराणस्यप्यत्र । वरणाशब्दे ४८४९ पृ० दृश्यम् ।
शब्दकल्पद्रुमः
वाराणसी || स्त्री (वरणा च असी च । तयोर्नद्यो- रदूरे भवा । “अदूरभवश्च ।” ४ । २ । ७० । इत्यण् । ङीप् । पृषोदरादित्वात् साधुः । अस्या निरुक्तिर्यथा, —
“वरणासी च नद्यौ द्वे पुण्ये पापहरे उभे । तयोरन्तर्गता या तु सैषा वाराणसी स्मृता ॥”)
मोक्षदपुरीविशेषः । वनारस् इति हिन्दी भाषा । तत्पर्य्यायः । वारणसी २ काशी ३ शिवपुरी ४ । इति हेमचन्द्रः ॥ जित्वरी ५ तपःस्थली ६ वरणसी ७ तीर्थराजी ८ काशिका ९ । इति शब्दरत्नावली ॥ तस्या माहात्म्यं यथा, — ईश्वर उवाच । “परं गुह्यतमं क्षेत्रं मम वाराणसी पुरी । सर्व्वेषामेव भूतानां संसारार्णवतारिणी ॥ तत्र भक्ता महादेवि ! मदीयं व्रतमाश्रिताः । निवसन्ति महात्मानः परं नियममास्थिताः ॥ उत्तमं सर्व्वतीर्थानां स्थानानामुत्तमञ्च यत् । ज्ञानानामुत्तमं ज्ञानं अविमुक्तपुरं मम ॥ स्थानान्तरं पवित्राणि तीर्थान्यायतनानि च । श्मशानसं स्थितान्येव दिव्यभूमिगतानि च ॥ भूर्लोके नैव संलग्नमन्तरीक्षे ममालयम् । अमुक्तास्तन्न पश्यन्ति मुक्ताः पश्यन्ति चेतसा ॥ श्मशानमेतद्विख्यातमविमुक्तमिति श्रुतम् । कालो भूत्वा जगदिदं संहराम्यत्र सुन्दरि ! ॥ देवीदं सर्व्वगुह्यानां स्थानं प्रियतरं मम । यद्भक्तास्तत्र गच्छन्ति मामेव प्रविशन्ति ते ॥ दत्तं जप्तं हुतं चेष्टं तपस्तप्तं कृतञ्च यत् । ध्यानमध्ययनं ज्ञानं सर्व्वं तत्राक्षयं भवेत् ॥ जन्मान्तरसहस्रेषु यत् पापं पूर्ब्बसञ्चितम् । अविमुक्तं प्रविष्टस्य तत्सर्व्वं व्रजति क्षयम् ॥ ब्राह्मणाः क्षत्त्रिया वैश्या शूद्रा ये वर्णसङ्कराः । स्त्रियो म्लेच्छाश्च ये चान्ये संकीर्णाः पाप- योनयः ॥ कीटाः पिपीलिकाश्चैव ये चान्ये मृगपक्षिणः । कालेन निधनं प्राप्ताः स्वविमुक्ते वरानने ! ॥ चन्द्रार्द्धमौलयस्त्र्यक्षा महावृषभवाहनाः । शिवे मम पुरे देवि ! जायन्ते तत्र मानवाः ॥ नाविमुक्ते मृतः कश्चिन्नरकं याति किल्विषी । ईश्वरानुगृहीता हि सर्व्वे यान्ति परां गतिम् ॥ मोक्षं सुदुर्ल्लभं मत्वा संसारञ्चातिभीषणम् । अश्मना चरणौ हत्वा वाराणस्यां वसेन्नरः ॥ दुर्ल्लभा तपसा चापि पूतस्य परमेश्वरि ! । यत्र तत्र विपन्नस्य गतिः संसारमोक्षणी ॥ प्रसादाज्जायते ह्येतन्मम शैलेन्द्रनन्दिनि ! । अप्रबुद्धा न पश्यन्ति मम मायाविमोहिताः ॥ अविमुक्तं न पश्यन्ति मूढा ये तमसावृताः । विण्मूत्ररेतसां मध्ये तेषां वासः पुनः पुनः ॥ हन्यमानोऽपि यो विद्वान् वसेद्बिघ्नशतैरपि । स याति परमं स्थानं यत्र गत्वा न शोचति ॥ जन्ममृटत्युजरायुक्तं परं यान्ति शिवालयम् । अपुनर्मरणानां हि सा गतिर्मोक्षकाङ्क्षिणाम् ॥ यां प्राप्य कृतकृत्यः स्यादिति मन्यन्ति पण्डिताः । न दानैर्न तपोभिश्च न यज्ञैर्नापि विद्यया ॥ प्राप्यते मतिरुत्कृष्टा या विमुक्ते तु लभ्यते । नानावर्णा विवर्णाश्च चाण्डालाद्या जुगुप्सिताः ॥ किल्विषैः पूर्णदेहा ये विशिष्टैः पातकैस्तथा । भेषजं परमं तेषामविमुक्तं विदुर्ब्बुधाः ॥ अविमुक्तं परं ज्ञानमविमुक्तं परं पदम् । अविमुक्तं परं तत्त्वमविमुक्तं परं शिवम् ॥ कृत्वा वै नैष्ठिकीं दीक्षामविमुक्ते वसन्ति ये । तेषां तत् परमं ज्ञानं ददाम्यन्ते परं पदम् ॥ प्रयागं नैमिषं पुण्यं श्रीशैलोऽथ हिमालयः । केदारं भद्रकर्णञ्च गया पुष्करमेव च ॥ कुरुक्षेत्रं रुद्रकोटिर्नर्म्मदा स्नातकेश्वरम् । शालग्रामञ्च कुब्जाम्रं कोकामुखमनुत्तमम् ॥ प्रभासं विषयेशानं गोकर्णं भद्रकर्णकम् । एतानि पुण्यस्थानानि त्रैलोक्ये विश्रुतानि तु ॥ न यास्यन्ति परं मोक्षं वाराणस्यां तथा मृताः । वाराणस्यां विशेषेण गङ्गा त्रिपथगामिनी ॥ प्रविष्टा नाशयेत् पापं जन्मान्तरशतैः कृतम् । अन्यत्र शुभगा गङ्गा श्राद्धं दानं तपो जपः ॥ व्रतानि सर्व्वमेवैतत् वाराणस्यां सुदुर्लभम् । यजेत जुहुयान्नित्यं ददात्यर्च्चयतेऽमरान् ॥ वायुभक्ष्यश्च सततं वाराणस्यां स्थितो नरः । यदि पापो यदि शठो यदि वा धार्म्मिको नरः । वाराणसीं समासाद्य पुनाति सकलं नरः ॥ वाराणस्यां महादेवं येऽर्च्चयन्ति स्तुवन्ति वै । सर्व्वपापविनिर्म्मुक्तास्ते विज्ञेया गणेश्वराः ॥ अन्यत्र योगज्ञानाभ्यां सन्न्यासादथ नान्यतः । प्राप्यते तत् परं स्थानं सहस्रेणैव जन्मनः ॥ ये भक्त्या देवदेवेशं वाराणस्यां वसन्ति वै । ते विन्दन्ति परं मोक्षमेकेनैव तु जन्मना ॥ यत्र योगस्तथा ज्ञानं मुक्तिरेकेन जन्मना । अविमुक्तं तदासाद्य नान्यद्ग च्छेत्तपोवनम् ॥ ज्ञानाज्ञानाभिनिष्ठानां परमानन्दमिच्छताम् । या गतिर्विहिता सुभ्रु साविमुक्ते मृतस्य तु ॥ यानि चैवाविमुक्तस्य देहे भुक्तानि कृत्स्नशः । पुरी वाराणसी तेभ्यः स्थानेभ्यो ह्यधिका शुभा ॥ यत्र साक्षान्महादेवो देहान्ते स्वयमीश्वरः । व्याचष्टे तारकं ब्रह्म तत्रैव ह्यविमुक्तके ॥ तत्तत् परतरं तत्त्वमविमुक्तमिति श्रुतम् । एकेन जन्मना देवि वाराणस्यां तदाप्नुयात् ॥ भ्रूमध्ये नाभिमध्ये च हृदये चैव मूर्द्धनि । यथाविमुक्तमादित्ये वाराणस्यां व्यवस्थितम् । वारणायास्तथा चास्या मध्यं वाराणसी पुरी ॥ तत्रैव संस्थितं भद्रं नित्यमेवाविमुक्तकम् । वाराणस्याः परं स्थानं न भूतं न भविष्यति ॥ यत्र नारायणो देवो महादेवाधिरीश्वरः । तत्र देवाः सगन्धर्व्वाः सयक्षोरगराक्षसाः । उपासते मां सततं देवदेवः पितामहः ॥ महापातकिनो ये च ये च वै पापकृत्तमाः । वाराणसीं समासाद्य ते यान्ति परमां गतिम् । तस्मान्मुमुक्षुर्विवशो वसेद्वै मरणान्तिकम् ॥ वाराणस्यां महादेवाज्ज्ञानं लब्ध्वा विमुच्यते । किन्तु विघ्ना भविष्यन्ति पापौघहतचेतसः ॥ यथा नारायणः श्रेष्ठो देवानां पुरुषोत्तमः । यथेश्वराणां गिरिशः स्थानानां वै तदुत्तमम् ॥ यैः समाराधितो रुद्रः पूर्ब्बस्मिन्नेव जन्मनि । ते विन्दन्ति परं क्षेत्रमविमुक्तं शिवालयम् ॥ ये स्मरन्ति सदा कालं वदन्ति च पुरीमिमाम् । तेषां विनश्यति क्षिप्रमिहामुत्र च पातकम् ॥ आचक्षध्वमिदं स्थानं सेवितं मोक्षकाङ्क्षिणाम् । मृतानाञ्च पुनर्जन्म न भूयो भवसागरे ॥ तस्मात् सर्व्वप्रयत्नेन वाराणस्यां वसेन्नरः । योगी वाप्यथवायोगी पापी वा पुण्यकृत्तमः ॥” इति कौर्म्मे २८ अध्यायः ॥ * ॥
अन्यच्च । “वाराणसी नाम पुरी गङ्गातीरे मनोहरे । वरणायास्तथा वासेर्मध्ये चापाकृतिः सदा ॥ स्वयं वृषध्वजस्तत्र नित्यं वसति योगिनाम् । सदा प्रीतिकरो योगी स्वयं चाप्यात्मचिन्तकः ॥ वियत्स्था सा पुरी नित्यं भर्गयोगबलाद्भृता । दिव्यं ज्ञानं ददात्येष तत्र यो म्रियते जनः ॥ तस्मै स्वयं महादेवः संसारग्रन्थिमुक्तये । स भूत्वा परमो योगी मृतस्तत्र भवान्तरे ॥ सुलभेनैव निर्व्वाणमाप्नोति स्मरहासमः । योगयुक्तो महादेवः पार्व्वत्या सहितः सदा ॥ देवगन्धर्व्वयक्षाणां मानुषाणाञ्च नित्यशः । ज्ञेयो हरः प्रकाशश्च क्षेत्रं तच्च प्रकाशितम् ॥ न तत्र कामदो देवो न चिराच्च प्रसीदति । आराधितश्चिरं भक्त्या निर्व्वाणाय प्रसीदति ॥ गौर्य्यादिवर्ज्जिता सा तु पुरी तत्र न गच्छति । योगस्थानं महाक्षेत्रं कदाचिदपि शाङ्करी ॥ आसन्नं युवयोः क्षेत्रमिदं वाराणसी तु यत् । कथितं नातिदूरे च वर्त्ततेऽमरसत्तमौ ॥” इति कालिकापुराणे ५० अध्यायः ॥ * ॥
अथ काशीयात्राविधिः । सूत उवाच । “यात्रापरिक्रमं ब्रूहि जनानां हितकाम्यया । यथावत् सिद्धिकामानां सत्यवत्याः सुतो मम ॥ व्यास उवाच । निशामय महाप्राज्ञ लोमहर्षण वच्मि ते । यथा प्रथमतो यात्रा कर्त्तव्या यात्रिकैर्म्मुद ॥ सचेलमादौ संस्नाय चक्रपुष्करिणीजले । सन्तर्प्य देवान् सपितॄन् ब्राह्मणांश्च तपस्विनः ॥ आदित्यं द्रौपदीं विष्णुं दण्डपाणिं महेश्वरम् । नमस्कृत्य ततो गच्छेत् द्रष्टुं ढुण्ढिविनायकम् ॥ ज्ञानवापीमुपस्पृश्य नन्दिकेशं ततोऽर्च्चयेत् । तारकेशं समभ्यर्च्च्य महाकालेश्वरं ततः ॥ ततः पुनर्द्दण्डपाणिमित्येषा पञ्चतीर्थिका । दैनन्दिनी विधातव्या महाफलमभीप्सुभिः ॥ * ॥
ततो वैश्वेश्वरी यात्रा कार्य्या सर्व्वार्थसिद्धये । द्विसप्तायतनानाञ्च कार्य्या यात्रा प्रयत्नतः ॥ कृष्णां प्रतिपदं प्राप्य भूतावधि यथाविधि । अथवा प्रतिभूतञ्च क्षेत्रसिद्धिमभीप्सुभिः ॥ तत्ततीर्थकृतस्नानस्तत्तल्लिङ्गकृतार्च्चनः । मौनेन यात्रां कुर्व्वाणः फलं प्राप्नोति यात्रिकः ॥ ॐकारं प्रथमं पश्येत् मत्स्योदर्य्यां कृतोदकः । त्रिपिष्टपमहादेवं ततो वै कृत्तिवाससम् ॥ रत्नेशञ्चाथ चन्द्रेशं केदारञ्च ततो व्रजेत् । धर्म्मेश्वरञ्च वीरेशं गच्छेत् कामेश्वरं ततः ॥ विश्वकर्म्मेश्वरञ्चाथ मणिकर्णीश्वरं ततः । अविमुक्तेश्वरं दृष्ट्वा ततो विश्वेशमर्च्चयेत् । एषा यात्रा प्रयत्नेन कर्त्तव्या क्षेत्रवासिभिः ॥ यस्तु क्षेत्रमुषित्वापि नैतां यात्रां समाचरेत् । विघ्नास्तस्योपजायन्ते क्षेत्रोच्चाटनसूचकाः ॥ * ॥
अष्टायतनयात्रान्या कर्त्तव्या विघ्नशान्तये ॥ दक्षेशः पार्व्वतीशश्च तथा पशुपतीश्वरः । गङ्गेशो नर्म्मदेशश्च गभस्तीशः सतीश्वरः ॥ अष्टमस्तारकेशश्च प्रत्यष्टमि विशेषतः । दृश्यान्येतानि लिङ्गानि महापापापशान्तये ॥ * ॥
अपरापि शुभा यात्रा योगक्षेमकरी सदा । सर्व्वविघ्नोपहन्त्री च कर्त्तव्या क्षेत्रवासिभिः ॥ शैलेशं प्रथमं वीक्ष्य वरणास्नानपूर्ब्बकम् । स्नानन्तु सङ्गमे कृत्वा द्रष्टव्यः सङ्गमेश्वरः ॥ स्वर्नीलतीर्थे सुस्नातः पश्येत् स्वर्नीलमीश्वरम् । स्नात्वा मन्दाकिनीतीर्थे द्रष्टव्यो मध्यमेश्वरः ॥ पश्येद्धिरण्यगर्भाख्यं तत्र तीर्थं कृतोदकः । पञ्चचूडह्रदे स्नात्वा ज्येष्ठस्थानं ततोऽर्च्चयेत् ॥ चतुःसमुद्रकूपे तु स्नात्वा देवं ततोऽर्च्चयेत् । देवस्याग्रे तु या वापी तत्रोपस्पर्शने कृते । शुक्रेश्वरं ततः पश्येत्तत्कूपविहितोदकः । दण्डखाते नरः स्नात्वा व्याघ्रेशं पूजयेत्ततः ॥ शौनकेश्वरकुण्डे तु स्नानं कृत्वा ततोऽर्च्चयेत् । जम्बुकेशं महालिङ्गं कृत्वा यात्रामिमां नरः ॥ क्वचिन्न जायते भूयः संसारे दुःखसागरे । समारभ्य प्रतिपदं यावत् कृष्णां चतुर्द्दशीम् ॥ एतत्क्रमेण कर्त्तव्यान्येतदायतनानि वै । इमां यात्रां नरः कृत्वा न भूयोऽप्यभिजायते ॥ अन्या यात्रा प्रकर्त्तव्यैकादशायतनोद्भवा । अग्नीध्रकुण्डसुस्नातः पश्येदग्नीध्रमीश्वरम् ॥ उर्व्वशीशं ततो गच्छेत्ततस्तु नकुलीश्वरम् । आषाढीशं ततो दृष्ट्वा भावभूतेश्वरं ततः ॥ लाङ्गलीशमथालोक्य ततस्तु त्रिपुरान्तकम् । ततो मनःप्रकामेशं प्रीतिकेशमथो व्रजेत् ॥ मदालसेश्वरं तस्मात् तिलपर्णेश्वरं ततः । यात्रैकादशलिङ्गानामेषा कार्य्या प्रयत्नतः ॥ इमां यात्रां प्रकुर्व्वाणो रुद्रत्वं प्राप्नुयान्नरः । * । अतः परं प्रवक्ष्यामि गौरीयात्रामनुत्तमाम् ॥ शुक्लपक्षतृतीयायां या यात्रा विश्ववृद्धिका । गोप्रेक्ष्यतीर्थे सुस्नाय सुखनिर्म्मालिकां व्रजेत् ॥ ज्येष्ठवाप्यां नरः स्नात्वा ज्येष्ठां गौरिं समर्च्चयेत् । सौभाग्यगौरी संपूज्या ज्ञानवाप्यां कृतोदकैः ॥ ततः शृङ्गारगौरीञ्च तत्रैव च कृतोदकः । स्नात्वा विशालगङ्गायां विशालाक्षीं ततो व्रजेत् ॥ सुस्नातो ललितातीर्थे ललितामर्च्चयेत्ततः । स्नात्वा भवानीतीर्थे तु भवानीं परिपूजयेत् ॥ मङ्गला च ततोऽभ्यर्च्च्या बिन्दुतीर्थकृतोदकैः । ततो गच्छेन्महालक्ष्मीं स्थिरलक्ष्मीसमृद्धये ॥ इमां यात्रां नरः कृत्वा क्षेत्रेऽस्मिन्मुक्तिजन्मनि । न दुःखैरभिभूयेत इहामुत्रापि कुत्रचित् ॥ * ॥
कुर्य्यात् प्रतिचतुर्थीह पूजां विघ्नेशितुः सदा । ब्राह्मणेभ्यस्तदुद्देशाद्देया वै मोदका मुदे ॥ भौमे भैरवयात्रा च कार्य्या पातकहारिणी । रविवारे रवेर्यात्रां षष्ठ्यां वा रविसंयुजि ॥ तथैव रविसप्तम्यां सर्व्वविघ्नोपशान्तये । नवम्यामथवा षष्ठ्यां चण्डीयात्रा शुभावहा ॥ * ॥
अन्तर्गृहस्य यात्रा वै कर्त्तव्या प्रतिवत्सरम् । प्रातः स्नानं विधायादौ नत्वा पञ्च विनायकान् । नमस्कृत्वा च विश्वेशं स्थित्वा निर्व्वाणमण्डपे । अन्तर्गृहस्य यात्रां हि करिष्येऽघौघशान्तये ॥ गृहीत्वा नियमञ्चेति गत्वाथ मणिकर्णिकाम् । स्नात्वा मौनेन चागत्य मणिकर्णीशमर्च्चयेत् ॥ कम्बलाश्वतरौ नागौ वासुकीशं प्रणम्य च । पर्व्वतेशं ततो दृष्ट्वा गङ्गाकेशवमप्यथ ॥ ततस्तु ललितां दृष्ट्वा जरासन्धेश्वरं ततः । ततो वै सोमनाथञ्च वराहञ्च ततो व्रजेत् ॥ ब्रह्मेश्वरं ततो नत्वा नत्वागस्तीश्वरं ततः । कश्यपेशं नमस्कृत्य हरिकेशवनन्त्वथ ॥ वैद्यनाथं ततो गत्वा ध्रुवेशमथ वीक्ष्य च । गोकर्णेशं ततोऽभ्यर्च्च्य हाटकेशमथो व्रजेत् ॥ अस्थिक्षेपतडागेऽथ दृष्ट्वा वै कीकशेश्वरम् । भावभूतं ततो नत्वा चित्रगुप्तेश्वरं ततः ॥ चित्रघण्टां प्रणम्याथ ततः पशुपतीश्वरम् । पितामहेश्वरं गत्वा ततस्तु कलसेश्वरम् ॥ चन्देशन्त्वथ वीरेशो विघ्नेशोऽग्नीश एव च ॥ नागेश्वरो हरिश्वन्द्रश्चिन्तामणिविनायकः । सेनाविनायकश्चाथ द्रष्टव्यः सर्व्वविघ्नहृत् ॥ वशिष्ठवामदेवौ च मूर्त्तिरूपधरावुभौ । द्रष्टव्यौ यत्नतः काश्यां महाविघ्नविनाशनौ । सीमाविनायकं नाथं करुणेशं ततो व्रजेत् ॥ त्रिसन्ध्येशो विशालाक्षी धर्म्मेशो विश्वबाहुका । आशाविनायकश्चाथ वृद्धादित्यस्ततः पुनः ॥ चतुर्वक्रेश्वरं लिङ्गं ब्रह्मेशस्तु ततः परम् । ततो मनःप्रकाशेश ईशानेशस्ततः परम् ॥ चण्डीचण्डीश्वरौ दृश्यौ भवानीशङ्करौ ततः । ढुण्ढिं प्रणम्य च ततो राजराजं समर्च्चयेत् ॥ लाङ्गलीशस्ततोऽभ्यर्च्च्यस्ततस्तु नकुलीश्वरः । परार्णेशमथो नत्वा परद्रव्येश्वरं ततः ॥ प्रतिग्रहेश्वरञ्चापि निष्कलङ्केशमेव च । मार्कण्डेयेशमभ्यर्च्च्य ततः अप्सरसेश्वरम् ॥ गङ्गेशोऽर्च्च्यस्ततो ज्ञानवाप्यां स्नानं समाचरेत् । नन्दिकेशं तारकेशं महाकालेश्वरं ततः ॥ दण्डपाणिं महेशञ्च मोक्षेशं प्रणमेत्ततः । वीरभद्रेश्वरं नत्वा अविमुक्तेश्वरं ततः ॥ विनायकांस्ततः पञ्च विश्वनाथं ततो व्रजेत् । ततो मौनं विसृज्याथ मन्त्रमेनमुदीरयेत् ॥ अन्तर्गृहस्य यात्रेयं यथावद्यन्मया कृता । न्यृनातिरिक्तया शम्भुः प्रीयतामनया विभुः ॥ इति मन्त्रं समुच्चार्य्य क्षणं वै मुक्तिमण्डपे । विश्राम्य यायाद्भवनं निष्पापः पुण्यवान्नरः ॥ * ॥
संप्राप्य वासरं विष्णोर्विष्णुतीर्थेषु सर्व्वतः । कार्य्या यात्रा प्रयत्नेन महापुण्यसमृद्धये ॥ नवम्यां पञ्चदश्याञ्च कुलस्तम्भं समर्च्चयेत् । दुःखरुद्रपिशाचत्वे न भवेदस्य पूजनात् ॥ श्रुत्वा पूर्ब्बमिमा यात्राः कर्त्तव्यास्तीर्थवासिभिः । पर्व्वस्वपि विशेषेण कार्य्या यात्राश्च सर्व्वतः ॥ न बन्ध्यं दिवसं कुर्य्यात् विना यात्रां क्वचित् कृती । यात्राद्वयं प्रयत्नेन कर्त्तव्यं प्रतिवासरम् । आदौ स्वर्गतरङ्गिण्यास्ततो विश्वेशितुर्भुवम् ॥ यस्य बन्ध्यं दिनं जातं काश्यां निवसतः सतः । निराशाः पितरस्तस्य तस्मिन्नेत दिनेऽभवन् ॥ स दष्टः कालसर्पेण स दष्टो मृत्युना स्फुटम् । स मुष्टस्तत्र दिवसे विश्वेशो यत्र नेक्षितः ॥ सर्व्वतीर्थेषु सस्नौ स सर्व्वयात्रां व्यधात् स च । मणिकर्ण्यान्तु यः स्नातो यो विश्वेशं निरैक्षत ॥ सत्यं सत्यं पुनः सत्यं सत्यं सत्यं पुनः पुनः । दृश्यो विश्वेश्वरो नित्यं स्नातव्या मणिकर्णिका ॥ व्यास उवाच । सूत स्कान्दमिमं श्रुत्वा काशीमाहात्म्यमुत्तमम् । नरो न निरयं याति कृत्वाप्यघसहस्रकम् ॥” इति काशीखण्डे १०० अध्यायः ॥