संस्कृत-शब्दकोशः

वारासन वाराहकर्णी

वाराह

वाचस्पत्यम्

वाराह ||‍ पु० वराहस्येदं प्रियत्वात् अण् । १ महापिण्डीतकवृक्षे राजनि० । २ वराहसम्बन्धिनि त्रि० ।


शब्दकल्पद्रुमः

वाराहः || पुं, महापिण्डीतकवृक्षः । इति राज- निर्घण्टः ॥ वराह एव (वराह + स्वार्थे अण् ।)
वाराहः । (कल्पभेदः । यथा, भागवते । ३ । ११ । ३७ । “अयन्तु कथितः कल्पो द्वितीयस्यापि भारत ! । वाराह इति विख्यातो यत्रासीत् शूकरो हरिः ॥” वराहस्येदमिति । वराह + तस्येदमित्यण् ।)
तत्सम्बन्धिनि, त्रि ॥ (यथा, महाभारते । २ । ४ । २ । “साज्येन पायसेनैव मधुना मिश्रितेन च । भक्ष्यैर्मूलैः फलैश्चैव मांसैर्वाराहहारिणैः ॥” क्ली, तीर्थभेदः । यथा, महाभारते । ३ । ८३ । १८ । “ततो गच्छेत धर्म्मज्ञ ! वाराहं तीर्थमुत्तमम् । विष्णुर्वराहरूपेण पूर्ब्बं यत्र स्थितोऽभवत् ॥” पुराणविशेषः । यथा, देवीभागवते । १ । ३ । ८ । “चतुर्व्विंशतिसाहस्रं वाराहं परमाद्भुतम् ॥”)



Correction: