वाचस्पत्यम्
वाराही || स्त्री वराहस्येयमण् ङीप् । अष्टमातृकामध्ये १ वराहशक्तौ “यज्ञवराहमतुलं रूपं या विभ्रता हरेः । शक्तिः साप्याययौ तत्र वाराहीं विभ्रती तनुम्” देवीमा० “वाराही नारसिंही च” श्यामास्तवः । २ योगिनीभेदे वृहन्नन्तिकेश्वरपु० । ३ वराहक्रान्तायाम् अमरः ४ वराह- योषिति च ५ श्याभाखगे राजनि० ।
शब्दकल्पद्रुमः
वाराही || स्त्री (वाराह + ङीष् ।)
ब्रह्माण्या- द्यष्टमातृकान्तर्गतमातृकाविशेषः । यथा, —
“वराहरूपधारी च वराहोपम उच्यते । वाराहजननी चाथ वाराही वरवाहना ॥” इति देवीपुराणे देवीनिरुक्ताध्यायः ४५ ॥ योगिनीविशेषः । यथा, —
“दुर्गा चण्डेश्वरी चण्डी वाराही कार्त्तिकी तथा । हरसिद्धा तथा काली इन्द्राणी वैष्णवी तथा ॥ भद्रकाली विशालाक्षी भैरवी कामरूपिणी । एताः सर्व्वाश्च योगिन्यो भृङ्गारैः स्नापयन्तु ते ॥” तीर्थविशेषः । यथा, —
“वाराही यमुना गङ्गा करतोया सरस्वती । कावेरी चन्द्रभागा च सिन्धुभैरवसागराः । पशुस्नानविधानाय सान्निध्यमिह कल्पय ॥” इति बृहन्नन्दिकेश्वरपुराणोक्तदुर्गापूजापद्धतिः ॥ वराहदेवस्य शक्तिः । यथा, —
“यज्ञवाराहमतुलं रूपं या बिभ्रतो हरेः । शक्तिः साप्याययौ तत्र वाराहीं विभ्रती तनुम् ॥” इति चण्डी ॥ अपि च । “वाराहरूपिणीं देवीं दंष्ट्रोद्धृतवसुन्धराम् । शुभदां सुप्रभां शुभ्रां वाराहीं तां नमाम्यहम् ॥” इति बृहन्नन्दिकेश्वरपुराणोक्तदुर्गापूजापद्धतिः ॥ वराहक्रान्ता । चामालु इति ख्यातः । तत्- पर्य्यायः । विष्वक्सेनप्रिया २ घृष्टिः ३ वदरा ४ । इत्यमरः ॥ गृष्टिः ५ । इति भरतः ॥ शूकरी ६ क्रोडकन्या ७ विष्वक्सेनकान्ता ८ वराही ९ कौमारी १० त्रिनेत्रा ११ ब्रह्मपुत्त्री १२ क्रोडी १३ कन्या १४ गृष्टिका १५ माधवेष्टा १६ शूकरकन्दः १७ क्रोडः १८ वनवासी १९ कुष्ठ- नाशनः २० बल्यः २१ अमृतः २२ महावीर्य्यः २३ महौषधम् २४ शम्बरकन्दः २५ वराह- कन्दः २६ वीरः २७ ब्राह्मीकन्दः २८ सुककन्दः २९ वृद्धिदः ३० व्याधिहन्ता ३१ । अस्य गुणाः । तिक्तत्वम् । कटुत्वम् । विषपित्तकफकुष्ठप्रमेह- क्रिमिनाशित्वम् । वृष्यत्वम् । बल्यत्वम् । रसा- यणत्वञ्च । इति राजनिर्घण्टः ॥ अन्यच्च । “वाराहीकन्द एवान्यैश्चर्म्मकारालुको मतः । अनूपे स भवेद्देशे वाराह इव लोमवान् ॥” इति भावप्रकाशः ॥ श्यामापक्षी । इति राजनिर्घण्टः ॥ मेदिनीमते पवर्गीयबकारादिरयं शब्दः ॥