संस्कृत-शब्दकोशः

वाराहीकन्द वारिकण्टक

वारि

वाचस्पत्यम्

वारि ||‍ न० वृ—इण् । १ जले अमरः २ ह्रीवेरे च हेमच० । वार्य्यतेऽनया वृ—णिच्—इन् वा ङीप् । ३ गजवन्धन्याम् अमरः । “वाय्यर्गलाभङ्ग इव प्रवृत्त” रघुः । ४ वाचि ५ सरस्वत्याम् च स्त्री ङीबन्तः ६ कलस्यां धरणिः ७ वन्दौ च मेदि० ।


शब्दकल्पद्रुमः

वारि || क्ली (वारयति तृषामिति । वृ + णिच् + “वसिवपियजिराजिव्रजिसदिहनिवाशिवादिवा- रिभ्य इञ् ।” उणा० ४ । १२४ । इति इञ् ।)
जलम् । इत्यमरः । १ । १० । ३ ॥ (यथा, मनौ । ४ । ६३ । “न कुर्व्वीत वृथा चेष्टां न वार्य्यञ्जलिना पिबेत् । नोत्सङ्गेभक्षयेत् भक्ष्यान्न जातु स्यात् कुतूहली ॥”)
दिग्विशेषे तस्य निषेधविधी यथा, —
“ईशाने चापि पूर्ब्बस्मिन् पश्चिमे च तथो- त्तरे । शिविरस्य जल भद्रमन्यत्राशुभमेव च ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १०२ अध्यायः ॥ जलक्रीडायां वर्णनीयानि यथा, —
“जलकेलौ सरःक्षोभचक्रहंसापसर्पणम् । पद्मम्लानिपयोबिन्दुदृग्रागा भूषणच्युतिः ॥” इति कविकल्पलतायाम् १ स्तवके ३ कुसुमम् ॥ ह्रीवेरम् । इति हेमचन्द्रः ॥


शब्दकल्पद्रुमः

वारिः || स्त्री (वारयतीति । वारि + इञ् ।)
वाक् । सरस्वती । गजबन्धनी । हस्तिबन्धन- भूमिः । (यथा, रघौ । ५ । ४५ । “संहारविक्षेपलघुक्रियेण हस्तेन तीराभिमुखः सशब्दम् । बभौ स भिन्दन् बृहतस्तरङ्गान् वार्य्यर्गलाभङ्ग इव प्रवृत्तः ॥”)
वन्दिः । कएदीति भाषा । इति मेदिनीकार- हेमचन्द्रौ ॥ (वरणीये, त्रि । यथा, वाजसनेय- संहितायाम् । २१ । ६१ । “बहुभ्य आ सङ्गतेभ्य एष मे देवेषु वसु वार्य्या- यक्ष्यते ।” “एषोऽग्निर्मेमह्यं देवेषु वारि वरीतुं योग्यं वारि वरणीयं वसु धनमायक्ष्यते ।” इति तद्भाष्ये महीधरः ॥)



Correction: