वाचस्पत्यम्
वारिकुब्ज || पु० वारिणि कुब्ज इव वक्राकृतित्वात् । शृङ्गाटके शब्दर० । स्वार्थे क । तत्रैव त्रिका० ।
शब्दकल्पद्रुमः
वारिकुब्जः || पुं, (वारिषु कुब्ज इव वक्रत्वात् ।) शृङ्गाटकः । इति शब्दरत्नावली ॥