वाचस्पत्यम्
वारिज || न० वारिणि जायते जन—ड । १ पद्मे २ लवङ्गे ३ गौरसुवर्णे ४ लवणभेदे च राजनि० । ५ शङ्खे हेमच० ६ शम्बूके पु० शब्दच० । ७ जलजातमात्रे त्रि० ।
शब्दकल्पद्रुमः
वारिजं || क्ली (वारिणि जायते इति । जन + डः ।)
द्रोणीलवणम् । गौरसुवर्णम् । पद्मम् । (यथा, अध्यात्मरामायणे । २ । ९ । २ । “स तत्र वज्राङ्कुशवारिजान्वित- ध्वजादिचिह्नानि पदानि सर्व्वतः ॥”)
लवङ्गम् । इति राजनिर्घण्टः ॥ (वारिजात- मात्रे, त्रि । यथा, महाभारते । १ । ८१ । १४ । “केनास्यर्थेन नृपते ! इमं देशमुपागतः । जिघृक्षुर्वारिजं किञ्चिदथवा मृगलिसया ॥” “वारिजं मीनंपद्मादि वेति ।” तट्टीकायां नील- कण्ठः ॥)
शब्दकल्पद्रुमः
वारिजः || पुं, (वाराण जायते इति । जन + डः ।)
शङ्खः । इति हेमचन्द्रः ॥ शम्बूकः । इति शब्द- माला ॥