वाचस्पत्यम्
वारितस्कर || पु० वारिणः तस्कर इवापहारकत्वात् । १ सूर्य्ये २ मेघे शब्दमा० । ३ मुस्तके च ।
शब्दकल्पद्रुमः
वारितस्करः || पुं, (वारिणस्तस्करः । अलक्षित- भावेन तदपहारकत्वात्तथात्वम् ।)
मेघः । इति शब्दमाला ॥ वारिशोषणकर्त्तरि, त्रि । यथा, “स्वरूपधारिणीं चेमामानिनाय निजा- श्रमम् । संज्ञां भार्य्यां प्रीतिमतीं भास्करो वारितस्करः ॥” इति मार्कण्डेयपुराणम् ॥