संस्कृत-शब्दकोशः

वारिरथ वारिरुह

वारिराशि

वाचस्पत्यम्

वारिराशि ||‍ पु० वारीणां राशयोऽत्र । १ समुद्रे त्रिका० । ६ त० । २ जलसमूहे च ।


शब्दकल्पद्रुमः

वारिराशिः || पुं, (वारीणां राशयो यत्र ।)
समुद्रः । इति त्रिकाण्डशेषः ॥ (यथा, कथा- सरित्सागरे । ६३ । ९८ । “तस्य भक्षयतो हस्ताच्च्युतमेकमुदुम्बरम् । जघास शिशुमारोऽत्र वारिराशिजलाश्रयः ॥” वारीणां राशिः । जलसमूहश्च । यथा, रघौ । ४ । ४६ । “शैलोपमः शैबलमञ्जरीणां जालानि कर्षन्नुरसा स पश्चात् । पूर्व्वं तदुत्पीडितवारिराशिः सरित्प्रवाहस्तटमुत्ससर्प ॥”)



Correction: