शब्दकल्पद्रुमः
वारिसम्भवं || क्ली (वारिप्रधानदेशेषु सम्भव उत्- पत्तिर्यस्य ।)
लवङ्गम् । सौवीराञ्जनम् । उशी- रम् । इति राजनिर्घण्टः ॥
शब्दकल्पद्रुमः
वारिसम्भवः || पुं, (वारिप्रधानस्थानेषु सम्भव उत्- पत्तिर्यस्य ।)
यावनालशरः । इति राज- निर्घण्टः ॥ (वारिषु सम्भवोऽस्य । वारिजात- मात्रे, त्रि । यथा, रामायणे । ५ । ६६ । ९ । “इतस्तु किं दुःखतरं यमिमं वारिसम्भवम् । मणिं पश्यामि सौमित्रे ! वैदेहीमागतं विना ॥”)