वारिसम्भव
वारीट
वारी
शब्दकल्पद्रुमः
वारी || स्त्री (वार्य्यतेऽनयेति । वृ + णिच् + “वसि- वपियजिराजिव्रजिसदिहनिराशिवादिवारिभ्य इञ् ।” उणा० ४ । १२४ । इति इञ् । वा ङीष् ।)
गजबन्धिनी । (यथा, रघुवंशे । ५ । ४५ । “बभौ स भिन्दन् बृहतस्तरङ्गान् वार्य्यर्गलाभङ्ग इव प्रवृत्तः ॥”)
कलसी । इति धरणिः ॥