वाचस्पत्यम्
वार् || न० चु० वृ—क्वप् । अप्सु अमरः ।
शब्दकल्पद्रुमः
वाः || [र्], क्ली, (वार्य्यते तृषानेनेति । वृ + णिच् + क्विप् । यद्बा, “वृञ वरणे । स्वार्थिकोऽण् छान्दसः । तदन्तात् क्विप् । अणि लोपः । हल्- ङ्यादिलोपः । रेफस्य विसर्जनीयः ।” इति निघण्टौ देवराजयज्वा । १ । १२ । ८ ।)
जलम् । इत्यमरः ॥ (यथा, भागवते । ३ । १३ । १६ । “सृजतो मे क्षितिर्वाभिः प्लाव्यमाना रसा- ङ्गता ॥”)
शब्दकल्पद्रुमः
वार् || क्ली (वारयतीति । वृञ् + णिच् + क्विप् ।)
जलम् । इत्यमरः । १ । १० । ३ ॥ (यथा, भागवते । १० । ३३ । २२ । “गन्धर्व्वपालिभिरनुद्रुत आविशद् वाः श्रान्तो गजीभिरिभराडिव भिन्नसेतुः ॥”)