संस्कृत-शब्दकोशः

वार् वार्क्ष्य

वार्क्षी

शब्दकल्पद्रुमः

वार्क्षी || स्त्री (वृक्षस्यापत्यं स्त्री । वृक्ष + अण् । ङीप् ।)
स्त्रीविशेषः । (यथा, महाभारते । १ । १९७ । १५ । “तथैव मुनिजा वार्क्षी तपोभिर्भावितात्मनः । सङ्गताभूद्दश भ्रातॄन्नेकनाम्नः प्रचेतसः ॥” इयं हि मारिषापरनाम्नी कण्डुमुनेरौरसात् प्रम्लोचागर्भगता सती पश्चात् वृक्षेभ्य उत्पन्ना । तत्कथा यथा, विष्णुपुराणे । १ । १५ । १ — ५३ । पराशर उवाच । “तपश्चरत्सु पृथिवीं प्रचेतःसु महीरुहाः । अरक्ष्यमाणामावब्रुर्ब्बभूवाथ प्रजाक्षयः ॥ नाशकन्मारुतो वातुं वृतं खमभवद् द्रुमैः । दशवर्षसहस्राणि न शेकुश्चेष्टितुं प्रजाः ॥ तद् दृष्ट्वा जलनिष्क्रान्ताः सर्व्वे क्रुद्धाः प्रचेतसः । मुखेभ्यो वायुमग्निञ्च तेऽसृजन् जातमन्यवः ॥ उन्मूलानथ तान् वृक्षान् कृत्वा वायुरशोषयत् ॥ तानग्निरदहद् घोरस्तत्राभूद् द्रुमसंक्षयः ॥ द्रुमक्षयमथो दृष्ट्वा किञ्चिच्छिष्टेषु शाखिषु । उपगम्याब्रवीदेतान् राजा सोमः प्रजापतीन् ॥ कोपं यच्छत राजानः शृणुध्वञ्च वचो मम । सन्धानं वः करिष्यामि सह क्षितिरुहैरहम् ॥ रत्नभूता च कन्येयं वार्क्षेयी वरवर्णिनी । भविष्यं जानता पूर्ब्बं मया गोभिर्व्विवर्द्धिता ॥ मारिषा नाम नाम्नैषा वृक्षाणामिति निर्म्मिता । भार्य्या वोऽस्तु महाभागा ध्रुवं वंशविवद्धिनी ॥ युष्माकं तेजसोऽर्द्धेन मम चार्द्धेन तेजसः । अस्यामुत्पत्स्यते विद्वान् दक्षो नाम प्रजापतिः ॥ मम चांशेन संयुक्तो युष्मत्तेजोमयेन वै । अग्निनाग्निसमो भूयः प्रजाः संवर्द्धयिष्यति ॥ कण्डुर्नाम मुनिः पूर्व्वमासीद् वेदविदां वरः । सुरम्ये गोमतीतीरे स तेपे परमं तपः ॥ तत्क्षोभाय सुरेन्द्रेण प्रम्लोचाख्या वराप्सराः । प्रयुक्ता क्षोभयामास तमृषिं सा शुचिस्मिता ॥ क्षोभितः स तया सार्द्धं वर्षाणामधिकं शतम् । अतिष्ठन्मन्दरद्रोण्यां विषयासक्तमानसः ॥ सा तं प्राह महात्मानं गन्तुमिच्छाम्यहं दिवम् । प्रसादसुमुखो ब्रह्मन् अनुज्ञां दातुमर्हसि ॥ तयैवमुक्तः स मुनिस्तस्यामासक्तमानसः । दिनानि कतिचिद् भद्रे स्थीयतामित्यभाषत ॥ एवमुक्ता ततस्तेन सार्द्धं वर्षशतं पुनः । बुभुजे विषयांस्तन्वी तेन सार्द्धं महात्मना ॥ अनुज्ञां देहि भगवन् व्रजामि त्रिदिवालयम् । उक्तस्तयेति स मुनिः स्थीयतामित्यभाषत ॥ पुनर्गते वर्षशते साधिके सा शुभानना । यामीत्याह दिवं ब्रह्मन् प्रणयस्मितशोभनम् ॥ उक्तस्तयैवं स मुनिरुपगुह्यायतेक्षणाम् । प्राहास्यतां क्षणं सुभ्रु चिरं कालं गमि- ष्यसि ॥ तच्छापभीता सुश्रोणी सह तेनर्षिणा पुनः । शतद्वयं किञ्चिदूनं वर्षाणामन्वतिष्टत ॥ गमनाय महाभागो देवराजनिवेशनम् । प्रोक्तः प्रोक्तस्तया तन्व्या स्थीयतामित्यभाषत ॥ तं सा शापभयाद् भीता दाक्षिण्येन च दक्षिणा । प्रोक्ता प्रणयभङ्गार्त्तिवेदनी न जहौ मुनिम् ॥ तया च रमतस्तस्य महर्षेस्तदहर्निशम् । नवं नवमभूत् प्रेम मन्मथाविष्टचेतसः ॥ एकदा तु त्वरायुक्तो निश्चक्रामोटजान्मुनिः । निष्क्रामन्तञ्च कुत्रेति गम्यते प्राह सा शुभा ॥ इत्युक्तः स तया प्राह परिवृत्तमहः शुभे । सन्ध्योपास्तिं करिष्यामि क्रियालोपोऽन्यथा भवेत् ॥ ततः प्रहस्य मुदिता तं सा प्राह महामुनिम् । किमद्य सर्व्वधर्म्मज्ञ परिवृत्तमहस्तव ॥ बहूनां विप्र वर्षाणां परिणाममहस्तव । गतमेतन्न कुरुते विस्मयं कस्य कथ्यताम् ॥ मुनिरुवाच । प्रातस्त्वमागता भद्रे नदीतीरमिदं शुभम् । मया दृष्टासि तन्वङ्गि प्रविष्टा च ममाश्रमम् ॥ इयञ्च वर्त्तते सन्ध्या परिणाममहर्गतम् । उपहासः किमर्थोऽयं सद्भावः कथ्यतां मम ॥ प्रम्लोचोवाच । प्रत्यूषस्यागता ब्रह्मन् सत्यमेतन्न ते मृषा । किन्त्वद्य तस्य कालस्य गतान्यब्दशतानि ते ॥ सोम उवाच । ततः ससाध्वसो विप्रस्तां पप्रच्छायतेक्षणाम् । कथ्यतां भीरु कः कालस्त्वया मे रमतः सह ॥ प्रम्लोचोवाच । सप्तोत्तराण्यतीतानि नववर्षशतानि ते । मासाश्च षट् तथैवान्यत् समतीतं दिनत्रयम् ॥ ऋषिरुवाच । सत्यं भीरु वदस्येतत् परिहासोऽथ वा शुभे । दिनमेकमहं मन्ये त्वया सार्द्धमिहासितम् ॥ प्रम्लोचोवाच । वदिष्याम्यनृतं ब्रह्मन् कथमत्र तवान्तिके । विशेषेणाद्य भवता पृष्टा मार्गानुवर्त्तिना ॥ सोम उवाच । निशम्य तद् वचः सत्यं स मुनिर्नृ पनन्दनाः । धिङ्मां धिङ्मामतीवेत्थं निनिन्दात्मानमा- त्मना ॥ मुनिरुवाच । तपांसि मम नष्टानि हतं ब्रह्मविदां धनम् । हतो विवेकः केनापि योषिन्मोहाय निर्म्मिता ॥ ऊर्म्मिषत्कातिगं ब्रह्म ज्ञेयमात्मजयेन मे । मतिरेषा हृता येन धिक् तं काममहाग्रहम् ॥ व्रतानि वेदविद्याप्तिकारणान्यखिलानि च । नरकग्राममार्गेण सङ्गेनापहृतानि मे ॥ विनिन्द्ये त्थं स धर्म्मज्ञः स्वयमात्मानमात्मना । तामप्सरसमासीनामिदं वचनमब्रवीत् ॥ गच्छ पापे यथाकामं यत् कार्य्यं तत्कृतं त्वया । देवराजस्य मत्क्षोभं कुर्व्वन्त्या भावचेष्टितैः ॥ न त्वां करोम्यहं भस्म क्रोधतीव्रेण वह्निना । सतां साप्तपदं मैत्रमुषितोऽहं त्वया सह ॥ अथवा तव को दोषः किं वा कुप्याम्यहं तव ममैव दोषो नितरां येनाहमजितेन्द्रियः ॥ यया शक्रप्रियार्थिन्या कृतो मे तपसो व्ययः । त्वया धिक् तां महामोहमञ्जूषां सुजुगुप्सिताम् ॥ सोम उवाच । यावदित्थं स विप्रर्षिस्तां ब्रवीति सुमध्यमाम् । तावद् गलत्स्वेदजला सा बभूवातिवेपथुः ॥ प्रवेपमाणां सततं स्विन्नगात्रलतां सतीम् । गच्छ गच्छेतिंसक्रोधं उवाच मुनिसत्तमः ॥ सा तु निर्भत्सिता तेन विनिष्क्रम्य तदाश्रमात् । आकाशगामिनी स्वेदं ममार्ज्ज तरुपल्लवैः ॥ वृक्षाद् वृक्षं ययौ बाला तदग्रारुणपल्लवैः । निर्म्मार्ज्जमाना गात्राणि गलत्स्वदजलानि वै ॥ ऋषिणा यस्तदा गर्भस्तस्या देहे समाहितः । निर्ज्जगाम स रोमाच्च स्वेदरूपी तदङ्गतः ॥ तं वृक्षा जगृहुर्गर्भं एकं चक्रे तु मारुतः । मया चाप्यायितो गोभिः स तदा ववृधे शनैः ॥ वृक्षाग्रगर्भसंभूता मारिषाख्या वरानना । तां प्रदास्यन्ति वो वृक्षाः कोप एष प्रशान्ध- ताम् ॥ कण्डोरपत्यमेवं सा वृक्षेभ्यश्च समुद्गता । ममापत्यं तथा वायोः प्रम्लोचा तनया च सा ॥ स चापि भगवान् कण्डुः क्षीणे तपसि सत्तमः । पुरुषोत्तमाख्यं मैत्रेय विष्णोरायतनं ययौ ॥ तत्रैकाग्रमतिर्भूत्वा चकाराराधनं हरेः । ब्रह्मपारमयं कुर्व्वन् जपमेकाग्रमानसः । ऊर्द्ध्वबाहुर्महायोगी स्थित्वासौ भूपनन्दनाः ॥”)



Correction: