वाचस्पत्यम्
वार्त्ताकु || स्त्री वार्त्तमारोग्यमाकयति गमयति अक—णिच्- उण् । वृन्ताके (वेगुन) शब्दच० । “अग्निप्रदा १ मारुत- नाशिनी २ च शुक्रपदा ३ शोणितवर्द्धिनी ४ च । हृल्लास- कासारुचिनाशिनी च ५ । ६ । ७ । वार्त्ताकुरेषा गुणसप्त- युक्ता । सा बाला कफवातघ्नी पक्वा सक्षारपित्तला । सदाफला त्रिदोषघ्नी रक्तपित्तप्रसादनी । अङ्गारपक्वा वार्त्ताकः किञ्चित् पित्तकरी मता । कफमेदोऽनिल- हरा सरा लघुतरा परा” राजव० । “वृन्ताकं स्वादु- तीक्ष्णोष्णं कटुपाकमपित्तलम् । ज्वरवातनलासघ्नं दी- पनं शुक्रलं लघु । तद्बालं कफपित्तघ्नं वृद्धं पित्त- करं गुरु । वृन्तार्कं पित्तलं किञ्चिदङ्गारोपरिपाचि- तम् । कफमेदोऽनिलामघ्नमत्यन्तं लघु दीपनम् । तदेव हि गुरु स्निग्धं सतैलं लवणान्वितम् । अपरं श्वेत- वृन्ताक कुक्कुटाण्डसमं भवेत् । तदर्शःसु विशेषेण हितं हीनञ्च पूर्वतः” भावप्र० । तत्रार्थे पु० त्रिका० ।
शब्दकल्पद्रुमः
वार्त्ताकुः || पुं, (वृत् + काकुः ।)
वार्त्ताकी । इति त्रिकाण्डशेषः ॥
शब्दकल्पद्रुमः
वार्त्ताकुः || स्त्री (वर्त्तते इति । वृत् + “वृते- र्वृद्धिश्च ।” उणा० ३ । ७९ । इति काकुः ।)
स्वनामख्यातफलवृक्षः । वेगुन इति भाषा ॥ तत्पर्य्यायः । हिङ्गुली २ सिंही ३ भण्टाकी ४ दुष्प्रधर्षिणी ५ वार्त्ताकी ६ वार्त्ता ७ वाति- ङ्गणः ८ वार्त्ताकः ९ शाकविल्वः १० राज- कुष्माण्डः ११ । इति जटाधरः ॥ वार्त्तिकः १२ वातिगमः १३ वृन्ताकः १४ वङ्गणः १५ अङ्गणः १६ । इति शब्दरत्नावली ॥ कण्ट- वृन्ताकी १७ कण्टालुः १८ कण्टपत्रिका १९ निद्रालुः २० मांसकफला २१ वृन्ताकी २२ महोटिका २३ चित्रफला २४ कण्टकिनी २५ महती २६ कट्फला २७ मिश्रवर्णफला २८ नीलफला २९ रक्तफला ३० शाकश्रेष्ठा ३१ वृत्तफला ३२ नृपप्रियफला ३३ । अस्या गुणाः कटुत्वम् । रुच्यत्वम् । मधुरत्वम् । पित्तना- शित्वम् । बलपुष्टिकारित्वम् । हृद्यत्वम् । गुरु- त्वम् । वातेषु निन्दितत्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “अग्निप्रदा मारुतनाशिनी च शुक्रप्रदा शोणितवर्द्धिनी च । हृल्लासकासारुचिनाशिनी च वार्त्ताकुरेषा गुणसप्तयुक्ता ॥ सा बाला कफवातघ्नी पृक्वा सक्षारपित्तला । सदाफला त्रिदोषघ्नी रक्तपित्तप्रसादनी ॥ अङ्गारपक्वा वार्त्ताकुः किञ्चित्पित्तकरी मता । कफमेदोऽनिलहरा सरा लघुतरा परा ॥” इति राजवल्लभः ॥ अन्यच्च । “वृन्ताकं स्वादु तीक्ष्णोष्णं कटुपाकमपित्तलम् । ज्वरवातवलासघ्नं दीपनं शुक्रलं लघु ॥ तद्बालं कफपित्तघ्नं वृद्धं पित्तकरं गुरु । वृन्ताकं पित्तलं किञ्चिदङ्गारोपरिपाचितम् ॥ कफमेदोऽनिलामघ्नमत्यन्तं लघु दीपनम् । तदेव हि गुरु स्निग्धं सतैलं लवणान्वितम् ॥ अपरं श्वेतवृन्ताकं कुक्कुटाण्डसमं भबेत् । तदर्शःसु विशेषेण हितं हीनञ्च पूर्ब्बतः ॥” इति भावप्रकाशः ॥