वाचस्पत्यम्
वार्दल || न० वार्दल्यतेऽत्र दल—आधारे क्र । १ दुर्दिने २ मस्या- धारे पु० मेदि० ।
शब्दकल्पद्रुमः
वार्द्दलं || क्ली (वार्भिः सलिलैर्दलतीति । दल + अच् । सदा मेघाच्छन्नवृष्टिपातात्तथात्वम् ।)
दुर्द्दिनम् । इति मेदिनी । ले, ११९ ॥ तन्मते पवर्गीयादिः ॥ (वादल इति भाषा ॥)
शब्दकल्पद्रुमः
वार्द्दलः || पुं, (वार्दल्यतेऽत्रेति । दल + “पुंसि संज्ञायां घः प्रायेण ।” ३ । ३ । ११८ । इति घः ।)
मेलानन्दा । सा तु मस्याधारः । इति मेदिनी । ले, ११९ ॥