वाचस्पत्यम्
वार्ध्रीणस || पु० वार्द्धी नस + पृषो० । वार्द्धीनसे खड्गिनि च ।
शब्दकल्पद्रुमः
वार्द्ध्रीणसः is an alternate of वार्द्ध्रीनसः. वार्द्ध्री(ण)नसः || पुं, वार्द्ध्रीव नासिका यस्य । नासाया नसादेशः ।)
गण्डकः । गण्डार इति भाषा । यथा, —
“वार्द्ध्रीनसस्त्वेकचरो गणोत्साहश्च गण्डकः ॥” इति त्रिकाण्डशेषः ॥
शब्दकल्पद्रुमः
वार्द्ध्रीणसः || पुं, (वार्द्ध्रीव नासिकास्येति । “अञ् नासिकायाः संज्ञायां नसं चास्थूलात् ।” ५ । ४ । ११८ । इति अच् नसादेशश्च । “पूर्ब्ब- पदात् संज्ञायामगः ।” ८ । ४ । ३ । इति णत्वम् ।)
पशुविशेषः । यथा, —
“त्रिप्लवं त्विन्द्रियक्षीणं श्वेतं वृद्धमजापतिम् । वार्द्ध्रीणसः प्रोच्यतेऽसौ हव्ये कव्ये च संत्कृतः ॥” पक्षिविशेषः । यथा, —
“नीलग्रीवो रक्तशीर्षः कृष्णपादः सितच्छदः । वार्द्ध्रीणसः स्यात् पक्षीशो मम विष्णोरति- प्रियः ॥” तेषां वलिदानफलम् । यथा, —
“रोहितस्य तु मत्स्यस्य मांसैर्व्वार्द्ध्रीणसस्य च । तृप्तिमाप्नोति वर्षाणां शतानि त्रीणि मत्प्रिया ॥ महिषाणाञ्च खड्गानां रुधिरैः शतवार्षि- कीम् । तृप्तिमाप्नोति परमां शार्द्दूलरुधिरैस्तथा ॥” इति कालिकापुराणे ६६ अध्यायः ॥ * ॥
तन्सांसेन पितृतृप्तिर्यथा, —
“वार्ध्रीणसामिषं लौहं कालशाकं तथा मधु । दौहित्रामिषमन्यच्च यद्दत्तं तत् कुलोद्भवैः ॥ अनन्तां तां प्रयच्छन्ति तृप्तिं गौरीसुतस्तथा । पितॄणां नात्र सन्देहो गयाश्राद्धं च पुत्त्रक ॥” इति मार्कण्डेयपुराणे श्राद्धकल्पाध्यायः ॥ “त्रिविधं त्विन्द्रियक्षीणं श्वेतं वृद्धमजापतिम् । वार्द्ध्रीणसन्तु तं प्राहुर्याज्ञिकाः श्राद्धकर्म्मणि ॥ रक्तपादो रक्तशिरा रक्तचञ्चुर्विहङ्गमः । कृष्णवर्णेन च तथा पक्षी वार्ध्रीणसो मतः ॥” लौहं रक्तच्छागः । “दौहित्रं खड्गमित्याहुरपत्यं दुहितुस्तिलाः । कपिलाया घृतञ्चैव दौहित्रमिति चोच्यते ॥” गौरीसुतः दशवर्षोढाजः । इति तट्टीका ॥