वाचस्पत्यम्
वार्मण || न० वर्मणां समूहः अण् न टिलोपः । कवचसमूहे अमरः ।
शब्दकल्पद्रुमः
वार्म्मणं || क्ली (वर्म्मणां समूहः । वर्म्मन् + “भिक्षा- दिभ्योऽण् ।” ४ । २ । ३८ । इति अण् ।) वर्म्मसमूहः । इत्यमरटीकायां सारसुन्दरी ॥