वाचस्पत्यम्
वालव || पु० वल—घञ् वालश्चलनं वाति गच्छति वा—क । तिथ्यर्द्धात्मके द्वितीये करणे ज्यो० त० ।
शब्दकल्पद्रुमः
वालवः || पुं, ववाद्येकादशकरणान्तर्गतद्वितीय- करणः । तत्र जातफलम् । “कार्य्यस्य कर्त्ता स्वजनस्य भर्त्ता सेनाप्रणेता कुलशीलयुक्तः । उदारबुद्धिर्ब्बलवान् मनुष्य- श्चेद्वालवाख्ये जननं हि यस्य ॥” इति कोष्ठीप्रदीपः ॥