शब्दकल्पद्रुमः
वा(बा)लकः || पुं, क्ली, पारिहार्य्यः । अङ्गुरीयके, त्रि । इति मेदिनी । के, १५३ ॥ अस्यार्थान्त- राणि पवर्गीयवकारादौ द्रष्टव्यानि ॥ (गन्धयुक्त- द्रव्यविशेषे, पुं । यथा, बृहत्संहितायाम् । ७७ । ५ । “त्वक्कुष्ठरेणुनलिका स्पृक्कारसतगरवालकैस्तुल्यैः । केशरपत्रविमिश्रैर्नरपतियोग्यं शिरःस्नानम् ॥”)