शब्दकल्पद्रुमः
वालुका is an alternate of बालुका. बा(वा)लुका || स्त्री (बालुक + टाप् ।)
रेणुविशेषः । बालि इति भाषा । तत्पर्य्यायः । सिकता २ सिक्ता ३ शीतला ४ सूक्ष्मशर्करा ५ प्रवाही ६ महासूक्ष्मा ७ सूक्ष्मा ८ पाणीयवर्णिका ९ । अस्या गुणाः । मधुरत्वम् । शीतत्वम् । सन्ताप- श्रमनाशित्वञ्च । “सेकप्रयोगतश्चैव शाखाशेषानिलापहा ॥” इति राजनिर्घण्टः ॥ शाखा हस्तपादादि ॥ कर्कटी । इति जटा- घरः ॥ कर्पूरः । यन्त्रविशेषः । इति शब्द- चन्द्रिका ॥