शब्दकल्पद्रुमः
वालुकायन्त्रं is an alternate of बालुकायन्त्रं. बा(वा)लुकायन्त्रं || क्ली (बालुकाया यन्त्रम् ।)
औषधपाकार्थयन्त्रविशेषः । यथा, —
“भाण्डे वितस्तिगम्भीरे मध्ये निहितकूपके । कूपिकाकण्ठपर्य्यन्तं बालुकाभिश्च पूरिते ॥ भेषजं कूपिकासंस्थं बह्रिना यत्र पच्यते । बालुकायन्त्रमेतद्धि यन्त्रतन्त्रबुधैः स्मृतम् ॥” इति भावप्रकाशः ॥