शब्दकल्पद्रुमः
वालुकी is an alternate of बालुकी. बा(वा)लुकी || स्त्री (बलति बालयति वा । बल- प्राणने + उक । स्त्रियां ङीप् ।)
कर्कटीभेदः । तत्पर्य्यायः । बहुफला २ स्निग्धफला ३ क्षेत्रकर्कटी ४ क्षेत्ररुहा ५ काण्डिका ६ मूत्रला ७ । अस्या गुणाः । “बालुकी वातशमनी शीता हृद्या श्रमापहा । पित्तास्रशमनी रुच्या कुरुते कासपीनसौ ॥ “स्याद्बालुकी शरदि वर्षजदोषकर्त्री हेमन्तजा च खलु पित्तहरा च रुच्या । क्षिप्रं करोति खलु पीनसमर्द्धपक्वा पक्वा त्वतीवमधुरा फलकारिणी च ॥” इति राजनिर्घण्टः ॥