संस्कृत-शब्दकोशः

वालूक वाल्क

वालेय

शब्दकल्पद्रुमः

वालेयः is an alternate of बालेयः. बा(वा)लेयः || पुं, (बलये उपकरणाय साधुः । बलि + “छदिरुपघिवलेर्ढञ् ।” ५ । १ । १३ । इति ढञ् ।)
रासभः । इत्यमरः । २ । ९ । ७७ ॥ (यथा, मार्कण्डेये । ५० । ८५ । “एकच्छागं द्बिबालेयं त्रिगवं पञ्चमाहिषम् । षडश्वं सप्तमातङ्गं गृहं यक्षाशु शोषय ॥” बलेः स्वनामख्यातस्य दैत्यस्यापत्यं पुमान् । बलि + ढञ् ।)
दैत्यविशेषः । इति धरणिः ॥ (बलिः विरोचनपुत्त्रस्तस्य बाणज्येष्ठं पुत्त्रशतं जातम् ते च बालेयनाम्ना विख्याताः । यदुक्तमग्नि- पुराणे । “विरोचनस्य पुत्त्रस्तु बलिरेकः प्रतापवान् । बलेः पुत्त्रशतं जज्ञे राजानः सर्व्व एव ते ॥ तेषां प्रधानाश्चत्वारो विक्रान्ताः सुमहावलाः । सहस्रबाहुर्ज्येष्ठश्च कन्य द्बे च बलेः शुभे ॥ बलेः पुत्त्रास्तु पौत्राश्च शतशोऽथ सहमशः । बालेयो नाम विख्यातो गणो विक्रान्तपौरुषः ॥” जनमेजयवंशोद्भवस्य सुतपसो राज्ञः पुत्त्रो बलिस्तस्य पञ्च पुत्त्राश्च बालेयाः । यथा, हरि- बंशे । ३१ । ३० — ३३ । “फेनस्य सुतपा जज्ञे जज्ञे सुतपसो बलिः । जातो मानुषयोनौ तु स राजा काञ्चनेषुधिः ॥ महायोगी स तु बलिर्बभूव नृपतिः पुरा । पुत्त्रानुत्पादयामास पञ्च वंशकरान् भुवि ॥ अङ्गः प्रथमतो जज्ञे वङ्गः सुह्मस्तथैव च । पुण्ड्रः कलिङ्गश्च तथा बालेयं क्षत्त्रमुच्यते ॥ बालेया ब्राह्मणाश्चैव तस्य वंशकरा भुवि । बलेस्तु ब्रह्मणा दत्ता वराः प्रीतेन भारत ! ॥”)
अङ्गारवल्लरी । इति विश्वः ॥ चाणक्यमूल- कम् । इति राजनिर्घण्टः ॥



Correction: