वाचस्पत्यम्
वांशिक || पु० वंशी तद्वादनं शिल्पमस्य ठक् । वंशीवादनशीले जटा०
शब्दकल्पद्रुमः
वांशिकः || पुं, (वंशीवादनं शिल्पमस्येति । वंश + ठक् ।)
वंशीवादकः । इति जटाधरः ॥ (भार- भूतान् वंशान् हरति वहति आवहति वा । “तद्धरति वहत्यावहति भाराद्बंशादिभ्यः ।” ५ । १ । ५० । इति ठक् । भारभूतवंशहारके तद्वाहके च त्रि ॥)