शब्दकल्पद्रुमः
वाशितं || क्ली (वाशृ शब्दे + भावे क्तः ।)
पशु- पक्ष्यादीनां शब्दः । इत्यमरः ॥ (यथा, महा- भारते । ९ । ३१ । ५३ । “आर्त्तप्रलापान् मा तात ! सलिलस्थः प्रभा- षिथाः । नैतन् मनसि मे राजन् ! वाशितं शकुने- रिव ॥”)
शब्दकल्पद्रुमः
वाशितः || त्रि (धातूनामनेकार्थत्वात् वाश सुरभी- करणे + क्तः ।)
सुरभीकृतः । इत्यमरटीकायां स्वामी ॥