वाचस्पत्यम्
वांशी || स्त्री वंशे भवः अण् ङीप् । वंशरोचनायाम् राजनि०
शब्दकल्पद्रुमः
वांशी || स्त्री (वंशे भवा + वंश + अण् । ङीष् ।)
वंशरोचना । इति राजनिर्घण्टः ॥ (तत्पर्य्यायो यथा, —
“तुगाक्षीरी शुभा वांशी वंशजा वंशलोचना ॥” इति वैद्यकरत्नमाला ॥ “स्याद्वंशरोचना वांशी तुगाक्षीरी तुगा शुभा । त्वक्क्षीरी वंशजा शुभ्रा वंशक्षीरी च वैणवी ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)