शब्दकल्पद्रुमः
वाशुरा || स्त्री (वाश्यते अस्यामिति । वाशृ शब्दे + “मन्दिवाशिमथिचतिचंक्यङ्किभ्य उरच् ।” उणा० १ । ३९ । इति उरच् । टाप् ।) रात्रिः । इत्युणादिकोषः ॥