शब्दकल्पद्रुमः
वाष्पिका || स्त्री (वाष्प + संज्ञायां कन् टाप् अत इत्वम् ।) हिङ्गुपत्री । तत्पर्य्यायः । कारवी २ पृथ्वी ३ कवरी ४ पृथुः ५ । इत्य- मरः ॥ त्वक्पत्री ६ वाष्पीका ७ कर्व्वरी । इति तट्टीका ॥