संस्कृत-शब्दकोशः

वासत वाःसदन

वासतेयी

वाचस्पत्यम्

वासतेयी ||‍ स्त्री वसतये हिता ढक् । १ रात्रौ त्रि० । २ वसति- योग्ये त्रि० “वनेषु वासतेयेषु” भट्टिः । स्त्रियां ङीप् ।


शब्दकल्पद्रुमः

वासतेयी || स्त्री (वसतौ साधुरिति । वसति + “पथ्यतिथिवसतिस्वपतेर्ढञ् ।” ४ । ४ । १०४ । इति ढञ् ।)
रात्रिः । इति त्रिकाण्डशेषः ॥ (वसतिसाधुमात्रे, त्रि । यथा, भट्टौ । ४ । ८ । “वनेषु वासतेयेषु निषसन् पर्णसंस्तरः । शय्योत्थायं मृगान् विध्यन्नातिथेयो विचक्रमे ॥”)



Correction: