संस्कृत-शब्दकोशः

वासन्ती वासयोग

वासन्तीपूजा

शब्दकल्पद्रुमः

वासन्तीपूजा || स्त्री (वासन्ती तदाख्या पूजा ।)
चैत्रमासीयदुर्गापूजा । यथा, —
“चैत्रे मासि सिते पक्षे नवम्यादिदिनत्रये । प्रातः प्रातर्महादेवीं दुर्गां भक्त्या प्रपूजयेत् ॥” इति ॥ तत्राष्टम्यां अन्नपूर्णापूजा यथा, —
“तत्राष्टम्यामन्नपूर्णां पूर्ब्बाह्णे साधकोत्तमः । रक्तवासैरक्तपुष्पैर्बलिभिः पूजयेच्छिवाम् ॥” इति च मायातन्त्रे ७ पटलः ॥ अपि च । “विशेषाच्चैत्रमासस्य या तिथिः स्यात् सिता- ष्टमी । तस्यां यः पूजयेद्भक्त्या प्रसादयति मां ध्रुवम् ॥” इति शाम्भवीतन्त्रे १४ पटलः ॥



Correction: