वाचस्पत्यम्
वासयोग || पु० वासेन गन्धेन योगो यत्र (आविर) चूर्णभेदे अमरः ।
शब्दकल्पद्रुमः
वासयोगः || पुं, (वासाय सुगन्धार्थं युज्यते इति । युज + घञ् ।)
चूर्णम् । इत्यमरः ॥ “द्वे आविर इति ख्याते । पटरसा क्षोदे इत्यन्ये । चूर्ण्यन्ते प्रेर्य्यन्ते चूर्णानि चूर्ण प्रेरणे अल् । वासे सुरभी- करणे युज्यन्ते उपयुज्यन्ते इति घञि वास- योगः ।” इति तट्टीकायां भरतः ॥ तत्पर्य्यायः । गन्धचूर्णम् २ पटवासम् ३ चूर्णकम् ४ । इति शब्दरत्नावली ॥