वाचस्पत्यम्
वासस् || न० वस—आच्छादने असि णिच्च । १ वस्त्रे अमरः २ पत्रभेदे राजनि० ।
शब्दकल्पद्रुमः
वासः || [स्] क्ली, (वस्यतेऽनेति । वस आच्छा- दने + “वसेर्णित् ।” उणा० ४ । २१७ । इत्य- सुन् । स च णित् ।)
वस्त्रम् । इत्यमरः ॥ (यथा, मनौ । ४ । ६६ । “उपानहौ च वासश्च वृतमन्यैर्न धारयेत् ॥”)
पत्रकम् । इति राजनिर्घण्टः ॥