संस्कृत-शब्दकोशः

वासवी वासस्

वाससज्जा

शब्दकल्पद्रुमः

वाससज्जा || स्त्री (वासं गृहं सज्जयतीति । सज्ज + णिच् + अण् । टाप् ।)
नायिकाभेदः । यथा, “खण्डितोत्कण्ठिता लब्धा तथा प्रोषितभर्त्तृका । कलहान्तरिता वाससज्जा स्वाधीनभर्त्तृका ॥ अभिसारिकाप्यष्टौ ता बन्धक्यां पांशुलासती ॥” इति जटाधरः ॥ अस्या विवरणं वासकसज्जाशब्दे द्रष्टव्यम् ॥



Correction: