संस्कृत-शब्दकोशः

वासाखण्ड वासागार

वासाखण्डकुष्माण्डक

वाचस्पत्यम्

वासाखण्डकुष्माण्डक ||‍ न० चक्रदत्तोक्ते औषधमेदे “पञ्चाशच्च पलं स्विन्नं कुष्माण्डात् प्रस्थमानतः । ग्राह्यं पलशतं खण्डं वासाक्वाथाढके पचेत् । मुस्ता- घात्री—शुभाभार्गी—त्रिसुगन्धैश्च कार्षिकैः । ऐलेयविश्व- धन्याकमरिचैश्च पलांशिकैः । पिप्पलीकुडबञ्चैव मघु मानीं प्रदापयेत् । कासं श्वासं क्षयं हिक्कां रक्तपित्तं हलीसकम् । हृद्रोगमम्लपित्तञ्च पीनसञ्च व्यपोहति”



Correction: