वाचस्पत्यम्
वासागार || न० वासयोग्यमगारम् शाक० । वासयोग्ये गृहे गृहमध्ये त्रिका० ।
शब्दकल्पद्रुमः
वासागारं || क्ली (वासाय वासस्य वा आगारम् ।) वासगृहम् । तत्पर्य्यायः । भोगगृहम् २ कन्याठः ३ ३ पत्न्याटः ४ निष्कुटः ५ । इति त्रिकाण्ड- शेषः ॥