वाचस्पत्यम्
वासाद्यघृत || न० चक्रदत्तोक्ते वृतभेदे “वासां गुडूचीं त्रिफलां त्रायमाणां यवासकम् । पक्त्वा तेन कषायेण पयसा द्विगुणेन च । विष्पलीमूलमृद्वीक चन्दनोत्पलनागरैः । कल्कीकृतैश्च विपचेत् घृतं जीर्ण- ज्वरापहम्” ।