वाचस्पत्यम्
वासित || त्रि० वास—क्त । १ सुरभीकृते अमरः । वाश—क्त पृषो० । २ रुते न० मेदि० । ३ ज्ञानमात्रे हेमच० । ४ खगशब्दे विश्वः ५ करिण्यां ६ स्त्रोमात्रे स्त्री अमरे पाठान्तरम् वा गौरा० ङीष् । ७ ख्याते ८ वस्त्रवेष्टिते च त्रि० धरणिः ।
शब्दकल्पद्रुमः
वासितं || क्ली (वास्यते स्मेति । वास + क्तः ।)
रुतम् । इति मेदिनी । ते, १५२ ॥ ज्ञान- मात्रम् । इति हेमचन्द्रः ॥ खगवरः । इति विश्वः ॥
शब्दकल्पद्रुमः
वासितः || त्रि (वास्यते स्मेति । वासि सुरभीकरणे + क्तः ।)
सुरभीकृतः । तत्पर्य्यायः । भावितः २ । इत्यमरः ॥ द्वे सुगन्धिपुष्पादिवासितद्रव्ये । भाव्यते प्राप्यते भावितं भू क ङ प्राप्तौ कर्म्मणि क्तः । वासं सौरभं करोति इति ञ्यन्तात् । कर्म्मणि क्ते वासितम् । इति तट्टीकायां भरतः ॥ जलादौ वासितः । इति शब्दरत्नावली ॥ ख्यातः । वस्त्रवेष्टितः । इति धरणिः ॥