संस्कृत-शब्दकोशः

वासु वासुकेय

वासुकि

वाचस्पत्यम्

वासुकि ||‍ पु० वसुना शिरस्थरत्नेन कायति कै—क स एव इञ् । १ सर्पराजे “भगिनी वासुकेस्तथा” मनसास्तोत्रम् ।


शब्दकल्पद्रुमः

वासुकिः || पुं, वसुकस्यापत्यमिति । वसुक + इञ् ।)
अहिपतिः । तत्पर्य्यायः । सर्पराजः २ । इत्य- मरः ॥ वासुकेयः ३ । इति शब्दरत्नावली । तस्योत्पत्तिर्यथा, —
“सुरसा जज्ञिरे सर्पांस्तेषां राजा तु तक्षकः । वासुकिश्चैव नागानां गणाः क्रोधतमोऽधिकः ॥” इति वह्निपुराणे काश्यपीयवंशः ॥ (जरत्कारुमुनिपत्नी मनसादेवी तु अस्येव भगिनी । “आस्तीकस्य मुनेर्माता भगिनी वासुके स्तथा । जरत्कारुमुनेः पत्नी नागमातर्नमोऽस्तु ते ॥” इति मनसाप्रणाममन्त्रः ॥)



Correction: