वाचस्पत्यम्
वासुदेव || पु० वसुदेवस्यापन्यम् अण । १ विष्णौ अमरः । अन्यापि तन्न मनिरुक्तिः विष्णुपु० दर्शिता यथा “सर्व- त्रामो समस्त च वसत्यत्रेति वै यतः । ततः स वासु- देवेति विद्वद्भिः परिण्ठ्यते” । विष्णुस० भाष्ये तु द्विधा पठितयोः वासदेवशब्दयोर्द्विधा व्युत्पत्तिर्दर्शिता तत्र प्र- थम वसुदेवापत्यरूपार्थिका द्वितीया यथा “वसति वासं गच्छति वा वासुः दीव्यति क्रीडति जिगीषते व्यव- हरति द्योतते स्तूयते मुमुक्षुभिर्वा गच्छतीति वा देवः । वासुश्चास्रौ देवश्च वामदेवः । छादयामि जगद्विश्वं भूत्या (मायया) सूर्य्य इवांशुभिः । सर्वभूताधिवासश्च वासु- देवस्ततः स्मृतः” “वसनात् सर्वभूतानां वासुत्वाद् दवयो- नितः । वासुदेवस्ततो ज्ञेयो योगिभिस्तत्त्ववादिभिः” भा० उ० । स च चतुर्व्यूहस्य नारायणाख्यस्य परमात्मनः अशभेदः इति वैष्णवामन्यन्ते “एकांशेन जगत् कृतस्नं व्याप्य नारायणः स्थितः । चतुर्द्धावस्थितो व्यापो सगुणो निर्गुणोऽपि वा । एका- भगवतोमूर्त्तिर्ज्ञानरूपा शिवाऽमला । वासुदेवाभिधाना सा गुणातीता सुनिष्कला । द्वितीया कालसंज्ञान्या तामसी शेषसंज्ञिता (सङ्कर्षणाख्य) । निहन्ति सकलांश्चान्तोवैष्ण- वी परमा तनः । सत्त्वाद्रका तृतीयाऽन्या पद्युम्नेनि च संज्ञिता । जगत् स्थापयते सर्वं सा विष्णुप्रकृतिर्ध्रवा । चतुर्यी वासुदेवस्य मूर्त्तिर्ब्राह्मी सुसंज्ञिता । राजसी चा- निरुद्धाख्या प्राद्युम्नी सृष्टिकारिका । यः स्वपित्यखिलं हृत्वा प्रद्युन्मेन सह प्रभुः । नारायणाख्यो ब्रह्मासौ प्रजासर्गकरो हि सः । या सा नारायणतनुः प्रद्यु- म्लाख्या मुनीश्वराः! । तया संमोहयेद्विश्वं सदेवासुर- मानुषम् । सैव सर्वजगत् सूते प्रकृतिः परिकीर्त्तिता । वासुदेवो ह्यनन्तात्मा केवलो निर्गुणो हरिः । प्रधानं पुरुषः कालस्तद्वद् त्रयमनुत्तमम् । वासुदेवात्मकं नित्य- मेतत विज्ञानमुच्यते” कूर्मपु० ४८ अ० ।
शब्दकल्पद्रुमः
वासुदेवः || पुं, (वसुदेवस्यापत्यमिति । वसुदेव + “ऋष्यन्धकवृष्णिकुरुभ्यश्च ।” ४ । १ । ११४ । इति अण् । यद्वा, सर्व्वत्रासौ वसत्यात्मरूपेण विश्वम्भरत्वादिति । वस् + बाहुलकात् उण् वासुः । वासुश्चासौ देवश्चेति कर्म्मधारयः । अस्य नामनिरुक्तिस्तु परतो ज्ञेया ।)
श्रीकृष्णः । इत्यमरः ॥ तत्पर्य्यायः । वसुदेवभूः २ । इति हेमचन्द्रः ॥ सव्यः २ सुभद्रः ४ वासुभद्रः ५ षडङ्गजित् ६ षड्बिन्दुः ७ प्रश्निशृङ्गः ८ प्रश्नि- भद्रः ९ गदाग्रजः १० मार्जः ११ वभ्रुः १२ लोहिताक्षः १३ परमाण्वङ्गकः १४ । इति शब्दमाला ॥ अन्यत् कृष्णशब्दे द्रष्टव्यम् ॥ श्रीकृष्णशरीरस्य नित्यत्वं यथा, — श्रीसनत्कुमार उवाच । “भद्रं वो मुनयः शश्वत्तपसां फलमीप्सितम् । कृष्णस्य कुशलप्रश्नं शिवबीजस्य निष्फलम् ॥ साम्प्रतं कुशलं वश्च दर्शनं परमात्मनः । भक्तानुरोधाद्देहस्य परस्य प्रकृतेरपि ॥ निर्गुणस्य निरोहस्य सर्व्वबीजस्य तेजसः । भारावतारणायैव चाविर्भूतस्य साम्प्रतम् ॥ श्रीकृष्ण उवाच । शरीरधारिणश्चापि कुशलप्रश्नमीप्सितम् । तत्कथं कुशलप्रश्नं मयि विप्र न विद्यते ॥ सनत्कुमार उवाच । शरीरे प्राकृते नाथ सन्त्रतञ्च शुभाशुभम् । नित्यदेहे क्षेमबीजे शिवप्रश्नमनर्थकम् ॥ श्रीभगवानुवाच । यो यो विग्रहधारी च स च प्राकृतिकः स्मृतः । देहो न विद्यते विप्र तां नित्यां प्रकृतिं विना ॥ सनत्कुमार उवाच । रक्तबिन्दूद्भवा देहास्ते च प्राकृतिकाः स्मृताः । कथं प्रकृतिनाथस्य बीजस्य प्राकृतं वपुः ॥ सर्व्वबीजस्य सर्व्वादिर्भवांश्च भगवान् स्वयम् । सर्व्वेषामवताराणां प्रधानं बीजमव्ययम् ॥ कृत्वा वदन्ति वेदाश्च नित्यं नित्यं सनातनम् । ज्योतिःस्वरूपं परमं परमात्मानमीश्वरम् ॥ मायया सगुणञ्चैव मायेशं निर्गुणं परम् । प्रवदन्ति च वेदाङ्गास्तथा वेदविदः प्रभो ॥ श्रीकृष्ण उवाच । साम्प्रतं वासुदेवोऽहं भक्तवीर्य्याश्रितं वपुः । कथं न प्राकृतो विप्र शिवप्रश्नमभीप्सितम् ॥ सनत्कुमार उवाच । वासः सर्व्वनिवासश्च विश्वानि यस्य लोमसु । तस्य देवः परं ब्रह्म वासुदेव इतीरितः ॥ वासुदेवेति तन्नाम वेदेषु च चतुर्षु च । पुराणेष्वितिहासेषु यात्रादिषु च दृश्यते ॥ रक्तवीर्य्याश्रितो देहः कृते वेदे निरूपितः । साक्षिणो मुनयश्चात्र धर्म्मः सर्व्वत्र एव हि ॥ साक्षिणो मम वेदाश्च रविचन्द्रौ च साम्प्रतम् ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ८७ अध्यायः ॥ तस्य नामव्युत्पत्तिः । “सर्व्वत्रासौ समस्तञ्च वसत्यत्रेति वै यतः । ततः स वासुदेवेति विद्बद्भिः परिगीयते ॥” इति विष्णुपुराणे १ अंशे २ अध्यायः ॥ अपि च । “सर्व्वाणि तत्र भूतानि वसन्ति परमात्मनि । भूतेष्वपि च सर्व्वात्मा वासुदेवस्ततः स्मृतः ॥ खाण्डिक्यजनकायाह ष्टष्टः केशिध्वजः पुरा । नामव्याख्यामनन्तस्य वासुदेवस्य तत्त्वतः ॥ भूतेषु वसते सोऽन्तर्व्वसन्त्यत्र च तानि यत् । धाता विधाता जगतां वादेवस्ततः प्रभुः ॥” इति तत्रैव । ६ । ५ । ८० — ८२ ॥ * ॥
(तथा च महाभारते । ५ । ७० । ३ । “वसनात् सर्व्वभूतानां वसुत्वात् देवयोनितः । वासुदेवस्ततो वेद्यो बृहत्वात् विष्णुरुच्यते ॥”)
अस्य अङ्गप्रत्यङ्गमन्त्रा यथा, —
“बीजस्तु वासुदेवस्य पुरैव प्रतिपादितम् । तदङ्गमन्त्रं राजेन्द्र द्वादशाक्षरमुच्यते ॥ ॐ नमो भगवते वामुदेवाय वै पदम् । अङ्गमन्त्रं तथैतस्य वासुदेवस्य कीर्त्तितम् ॥ अस्य प्रत्यङ्गरूपन्तु दधिवामनसंज्ञकम् । तस्य मन्त्रं नरश्रेष्ठ शम्भुना भाषितं शृणु ॥ ॐ नमो विष्णवे पूर्व्वं पदं तस्य प्रकोर्त्तितम् । पदन्तु सुरपतये चतुर्थ्यन्तं महाबलम् ॥ स्वाहान्तं हृदयासन्नं प्रत्यङ्गं वैष्णवं मतस् । मन्त्रद्वयन्तु यो वेद बीजं प्रत्यङ्गमन्त्रकम् ॥ स पूषा देवकायस्तु न स भूयोऽभिजायते । सर्व्वस्तूत्तरतन्त्रोक्तः क्रमो ग्राह्यः प्रपूजने ॥ त्रिषु मन्त्रेषु च बुधो विशेषं शृणु भूपते । रूपन्तु बीजमन्त्रस्य प्रथमं शृणु भूपते ॥ पूर्णचन्द्रोपमः शुक्लः पक्षिराजोपरिस्थितः । चतुर्भुजः पीतवस्त्रैस्त्रिभिः संवीतदेहभृत ॥ दक्षिणोर्द्ध्वे गदां धत्ते तदधो विकचाम्बुजम् । वामोर्द्ध्वे चक्रमत्युग्रं धत्तेऽधः शङ्खमेव च ॥ श्रीवत्सवक्षाः सततं कौस्तुभं हृदि चाद्भुतम् । धत्ते कक्षे ह्यधो वामे तूणीरं वाणपूरितम् ॥ दक्षिणे कोषगं खड्गं नन्दकं सशराशनम् । शीर्षे किरीटं सद्योतं कर्णयोः कुण्डलद्वयम् ॥ आजानुलम्बिनीं चित्रां स्वर्णमालां गलस्थि- ताम् । दधानं दक्षिणे देवीं श्रियं पार्श्वे तु विभ्रतम् ॥ सरस्वर्ती वामपार्श्वे चिन्तयेद्वरदं हरिम् । मन्त्रस्य बीजरूपन्तु कथितं तव पार्थिव ॥ द्बादशाक्षरमन्त्रस्य रूपमन्यत् शृणुष्व मे । नीलोत्पलदलश्यामं तथैव च चतुर्भुजम् ॥ दक्षिणोर्द्ध्वे स्थितं पद्मं गदाञ्चाधः प्रचोदयेत् ॥ वामेऽधश्चक्रमतुलमूर्द्ध्वे शङ्खञ्च विभ्रतम् । चिन्तयेद्वरदं देवं सर्व्वमन्यच्च पूर्व्ववत् ॥ अष्टादशाक्षरस्यास्य प्रत्यङ्गस्य च विस्तरम् । शृणु राजन्नवहितो दारिद्र्यभयभञ्जनम् ॥ पूर्णेन्दुसदृशं कामं शुक्लवस्त्रं विचिन्तयेत् । करे विचिन्तयेद्वामे पीयूषापूरितं घटम् ॥ दध्यन्नखण्डसंयुक्तं दक्षिणे स्वर्णभाजनम् । पद्मासनगतं देवं चन्द्रमण्डलमध्यगम् ॥ शुक्लवस्त्रधरं देवं प्रमाणाद्वामनं सदा । ईषद्धाससमायुक्तं त्रिलोकेशं त्रिविक्रमम् । चिन्तयेद्वरदं देवं सर्व्वकामफलप्रदम् ॥” इति कालिकापुराणे ८२ अध्यायः ॥ * ॥
तस्योत्पत्तिर्यथा, —
“ततस्तु दशमे मासि विधौ ब्रह्मर्क्षसङ्गते । अष्टम्यामर्द्धरात्रौ च तस्यां जातो जनार्द्दनः ॥ इन्दीवरदलश्यामः पद्मपत्रायतेक्षणः । चतुर्भुजः सुन्दराङ्गो दिव्याभरणभूषितः ॥ श्रीवत्सकौस्तुभोरस्को वनमालाविभूषितः । वमुदेवस्य जातोऽसौ वासुदेवः सनातनः ॥ इति पाद्मोत्तरखण्डे ६० अध्यायः ॥ * ॥
तस्य चतुर्धा मूर्त्तिर्यथा, —
“एकांशेन जगत् कृत्स्नं व्याप्य नारायणः स्यितः । चतुर्द्धावस्थितो व्यापी सगुणो निर्गुणोऽपि वा ॥ एका भगवतो मूर्त्तिर्ज्ञानरूपा शिवामला । वासुदेवाभिधाना सा गुणातीता सुनिष्कला ॥ द्बितीया कालसंज्ञान्या तामसी शेषसंज्ञिता । निहन्ति सकलांश्चान्ते वैष्णवी परमा तनुः ॥ सत्त्वोद्रिक्ता तृतीयान्या प्रद्युम्नेति च संज्ञिता । जगत् स्थापयते सर्व्वं सा विष्णुप्रकृतिर्ध्रुवा ॥ चतुर्थी वासुदेवस्य मूर्त्तिर्ब्राह्मी सुसंज्ञिता । राजसी चानिरुद्धाख्या प्राद्युम्नी सृष्टि- कारिका ॥ यः स्वपित्यखिलं हत्वा प्रद्युम्नेन सह प्रभुः । नारायणाख्यो ब्रह्मासौ प्रजासर्मकरो हि सः ॥ या सा नारायणतनुः प्रद्युम्नाख्या मुनीश्बराः । तया संमोहयेद्विश्वं सदेवासुरमानुषम् ॥ सैव सर्व्वजगत्सूतिः प्रकृतिः परिकीर्त्तिता । वासुदेवो ह्यनन्तात्मा केवलो निर्गुणो हरिः ॥ प्रधानं पुरुषः कालस्तद्वत् त्रयमनुत्तमम् । वासुदेवात्मकं नित्यमेतत् विज्ञानमुच्यते ॥ एकवेदं चतुष्पादं चतुर्द्धा पुनरच्युतः । विभेद वासुदेवोऽसौ प्रद्युम्नो हरिरव्ययः ॥” इति कूर्म्मपुराणे ४८ अध्यायः ॥