वाचस्पत्यम्
वास्तव || न० वस्त्वेव अण् । सत्यभूते पदार्थे ।
शब्दकल्पद्रुमः
वास्तवं || क्ली (वस्त्वेष । वस्तु + अण् ।)
यथार्थ- भूतम् । यथा, —
“धर्म्मः प्रोज्झितकैतवोऽत्र परमो निर्म्मत्सराणां सतां वेद्यं वास्तवमत्र वस्तु शिवदं तापत्रयोन्मूलनम् ।” इत्यादि श्रीभागवते प्रथमस्कन्धे १ अध्यायः ॥ “वास्तवं परमार्थभूतं वस्तु । यद्वा, वास्तव- शब्देन वस्तुबोऽंशो जीवः वस्तुनः कार्य्यं जगच्च तत् सर्व्वं वस्त्वेव न ततः पृथक् ।” इति तट्टी- कायां श्रीधरस्वामी ॥