संस्कृत-शब्दकोशः

वास्तव्य वास्तुक

वास्तु

वाचस्पत्यम्

वास्तु ||‍ पु० न० वस—तुण् । वासयोग्यभूमौ अमरः । गृहशब्दे २६३२ पृ० दृश्यम् । स्वार्थे क । स्वनामख्याते शाके राजनि० । तत्रार्थे न० भावप्र० ।


शब्दकल्पद्रुमः

वास्तु || क्ली पुं, (वसन्ति प्राणिनो यत्र । वस निवासे + “वसेरगारे णिच्च ।” उणा० १ । ७० । इति तुण् । स च णित् ।)
गृहकरणयोग्यभूमिः । तत्- पर्य्यायः । वेश्मभूः २ । इत्यमरः ॥ पोतः ३ वाटी ४ । इति जटाधरः ॥ वाटिका ५ गृहपोतकः ६ । इति शब्दरत्नावली ॥ वास्तुकरणप्रमा- णादिर्यथा, — श्रीहरिरुवाच । “वास्तु संक्षेपतो वक्ष्ये गृहादौ विघ्ननाशनम् । ईशानकोणादारभ्य ह्येकाशीतिपदे यजेत् ॥ ईशाने च शिरःपादौ नैरृतेऽग्न्यनिले करौ । आवासवासवेश्मादौ पुरे ग्रामे बणिक्पथे ॥ प्रासादारामदुर्गेषु देवालयमठेषु च । द्वात्रिंशत्तु सुरान् वाह्ये तदन्तश्च त्रयोदश ॥ ईशश्चैवाथ पर्ज्जन्यो जयन्तः कुलिशायुधः । सूर्य्यः सत्यो भृशश्चैव आकाशो वायुरेव च ॥ पूषा च वितथश्चैव गृहक्षेत्रयमावुभौ । गन्धर्व्वो भृङ्गराजश्च मृगः पितृगणस्तथा ॥ दौवारिकोऽथ सुग्रीवः पुष्पदन्तो गणाधिपः । असुरः शेषपापौ च रोगोऽहिर्मुख्य एव च ॥ भल्लाटः सोमसर्पौ च अदितिश्च दितिस्तथा । बहिर्द्बात्रिंशदेते तु तदन्तश्चतुरः शृणु ॥ ईशानादिचतुष्कोणसंस्थितान् पूजयेद्बुधः । आपश्चैवाथ सावित्रो जयो रुद्रस्तथैव च ॥ मध्ये नवपदो ब्रह्मा तस्याष्टौ च समीपगान् । देवानेकोत्तरानेतान् पूर्ब्बादौ नामतः शृणु ॥ अर्य्यमा सविता चैव विवस्वान् विबुधाधिपः । मित्रोऽथ राजयक्ष्मा च तथा पृथ्वीधरः क्रमात् ॥ अष्टमश्चापवत्सश्च परितो ब्रह्मणः स्मृताः । ईशानकोणादारभ्य दुर्ज्ञेयो वंश उच्यते ॥ आग्नेयकोणादारभ्य वंशो भवति दुर्द्धरः । अदितिं हिमवन्तञ्च जयन्तञ्च इदं त्रयम् ॥ नादिका कारिका नाम शक्राद्गन्धर्व्वगा पुनः । वास्तुदेवान् पूजयित्वा गृहप्रासादकृद्भवेत् ॥ सुरेभ्यः पुरतः कार्य्यं दिश्याग्नेय्यां महानसम् । रूपनिर्गमणे येन पूर्ब्बतः सत्रमण्डपम् ॥ गन्धपुष्पगृहं कार्य्यमैशान्यां पट्टसंयुतम् । भाण्डागारञ्च कौवेर्य्यां गोष्ठागारञ्च वायवे ॥ उदगाश्रयञ्च वारुण्यां वातायनसमन्वितम् । समित्कुशेन्धनस्थानमायुधानाञ्च नैरृते ॥ अभ्यागतालयं रम्यं शय्यासनसपादुकाम् । तोयाग्निदीपसद्भृत्यैर्युक्तं दक्षिणतो भवेत् ॥ गृहान्तराणि सर्व्वाणि सजलैः कदलीगृहैः । पञ्चवर्णैश्च कुसुमैः शोभितानि प्रकल्पयेत् ॥ प्राकारं तद्बहिर्दद्यात् पञ्चहस्तं प्रमाणतः । एवं विष्ण्वाश्रमं कुर्य्याद्वनैश्चोपवनैर्युतम् ॥ चतुःषष्टिपदो वास्तुः प्रासादादौ सुपूजितः । मध्ये चतुष्पदो ब्रह्मा द्विपदास्त्वर्य्यमादयः ॥ कर्णे चैवाथ पक्ष्याद्यास्तथा देवाः प्रकोर्त्तिताः । तेभ्योऽप्युभयतः सार्द्ध अन्येऽपि द्विपदाः सुराः ॥ चतुःषष्टिपदे देवा इत्येवं परिकीर्त्तिताः । चरकी च विदारी च पूतना पापराक्षसो ॥ ईशानाद्यास्तथा बाह्ये देवाद्या हेतुकादयः । हेतुकस्त्रिपुरान्तश्च अग्निर्वेतालको यमः ॥ अग्निजिह्वः कालकस्तु करालो ह्येकपादकः । ईशान्यां भीमरूपस्तु पाताले प्रेतनायकः ॥ आकाशे गन्धमाली स्यात् क्षेत्रपालांस्तथा यजेत् । विस्ताराभिहतं दीर्घं राशिद्वारन्तु कारयेत् ॥ वसुभिर्भागशुद्धिञ्च शेषाङ्कादायमादिशेत् । पुनर्गुणितमष्टाभिरृक्षभागन्तु भाजयेत् ॥ यच्छेषं तद्भवेदृक्षं भागैर्हृत्य व्ययं भवेत् । ऋक्ष चतुर्गुणं कृत्वा नवभिर्भागहारितम् ॥ शेषमंशं विजानीयात् देवलस्य मतं यथा । अष्टाभिर्गुणितं पिण्डं षष्टिभिर्भागहारितम् ॥ यच्छेषन्तु भवेज्जीवं मरणं भूतहारितम् । वास्तुक्रोडे गृहं कुर्य्यात् न पृष्ठे मानवः सदा ॥ वामपार्श्वेन स्वपिति नात्र कार्य्या विचारणा । सिंहकन्यातुलायाञ्च द्वारं शुद्धेदथोत्तरम् ॥ एवञ्च वृश्चिकादौ स्यात् पूर्ब्बदक्षिणपश्चैमम् । द्बारं दीर्घार्द्धविस्तारं द्बाराण्यष्टौ स्मृतानि च ॥ सुताल्पप्रैष्यनीचत्वं सुयानं सूत्रभूषणम् । पुत्त्रहीनन्तु रौद्रेण वीर्य्यघ्नं दक्षिणे तथा ॥ बद्धोऽवन्धश्चायुर्वृद्धिः पुत्त्रलाभसुतृप्तिदे । धनदं नृपपीडादमर्थघ्नं रोगदं जले ॥ नृपभीतिर्मृतापत्या अनपत्यञ्च वैरिदम् । अर्थदं वार्थहान्येव दोषदं पुत्त्रमृत्युदम् ॥ द्वाराण्युत्तरसंज्ञानि पूर्ब्बद्वाराणि वच्म्यहम् । अग्निभीतिर्बहुकन्या धनसम्मानकोपदम् ॥ राजघ्नं कोपदं पूर्ब्बे फलतो द्बारमीरितम् । ईशानादौ भवेत् पूर्ब्बे आग्नेयादौ तु दक्षिणे ॥ नैरृत्यादौ पश्चिमे स्यात् वायव्यादौ तु चोत्तरे । अष्टभागे कृते भागे द्वाराणाञ्च फलाफलम् ॥ अश्वत्थप्लक्षन्यग्रोधाः पूर्ब्बादौ स्यादुडुम्बरः । गृहस्य शोभनः प्रोक्त ईशाने चैव शाल्मलिः ॥ पूजितो विघ्नहारी स्यात् प्रासादस्य गृहस्य च ॥” इत्यादि गारुडे वास्तुमानलक्षणं ४६ अध्यायः ॥ प्रासादलक्षणन्तु प्रासादशब्दे द्रष्टव्यम् ॥ * ॥
अपि च । ऋषय ऊचुः । “प्रासादभवनादीनां निवेशं विस्तरान्नृप । कुर्य्यात् केन विधानेन कश्च वास्तुरुदाहृतः ॥ सूत उवाच । भृगुरत्रिर्व्वशिष्ठश्च विश्वकर्म्मा यमस्तथा । नारदो नग्नजिच्चैव विशालाक्षः पुरन्दरः ॥ ब्रह्मा कुमारो नन्दीशः शौनको गर्ग एव च । वासुदेवोऽनिरुद्धश्च तथा शुक्रबृहस्पती ॥ अष्टादशैते विख्याता वास्तुशास्त्रोपदेशकाः । संक्षेपेणोपदिष्टं यन्मनवे मत्स्यरूपिणा ॥ तदिदानीं प्रवक्ष्यामि वास्तुशास्त्रमनुत्तमम् । पुरान्धकवधे घोरे घोररूपस्य शूलिनः ॥ ललाटस्वेदसलिलमपतद्भुवि भीषणम् । करालवदनं तस्मात् समुद्भूतं समुल्वणम् ॥ ग्रसमानमिवाकाशं सप्तद्वीपां वसुन्धराम् । ततोऽन्धकानां रुधिरमपिबत् पतितं क्षितौ ॥ तेन तत्समरे सर्व्वं पतितं यन्महीतले । तथापि तृप्तिमगमत्तद्भूतं न तदा यदा ॥ तदा शिवस्य पुरतस्तपश्चक्रे सुदारुणम् । क्षुधाविष्टन्तु तद्भूतमाहर्त्तु जगतां त्रयम् ॥ ततः कालेन सन्तुष्टो भैरवस्तस्य चादरात् । वरं वृणीष्व भद्रं ते यदभीष्टं तवानघ ॥ तमुवाच ततो भूतं त्रैलोक्यग्रसनक्षमम् । भवामि देवदेवेश तथेत्युक्तञ्च शूलिना ॥ ततस्तत् त्रिदिव सर्व्वं भूमण्डलमशेषतः । स्वदेहेनान्तरीयञ्च बन्धानं प्रापतद्भुवि ॥ भीतभीतैस्ततो देवैर्ब्रह्मणा वाथ शूलिना । दानवासुररक्षोभिरवष्टब्धं समन्ततः ॥ येन यत्रैव चाक्रान्तं स तत्रैवाभवत् पुनः । निवासात् सर्व्वदेवानां वास्तुरित्यभिधीयते ॥ अवष्टब्धेन तेनापि विज्ञप्ताः सर्व्वदेवताः । प्रसीदध्वं सुराः सर्व्वे युष्माभिर्निश्चलीकृतः ॥ स्थास्यामि किं यदाहारमवष्टब्धमधीमुखम् । ततो ब्रह्मादिभिः प्रोक्तं वास्तुमध्ये तु यो वलिः ॥ आहारो वैश्वदेवान्ते न्यूनमस्मिन् भविष्यति । वास्तूपशमनो यज्ञस्तवाहारो भविष्यति ॥ एवमुक्तस्ततो हृष्टः स वास्तुरभवत्तदां । वास्तुयज्ञः स्मृतस्तस्मात् ततः प्रभृति शान्तये ॥” इति मात्स्ये वास्तुभूतोद्भवो नाम २२६ अध्यायः ॥ * ॥
सूत उवाच । “अथातः संप्रवक्ष्यामि गृहकालविनिर्णयम् । यथाकालं शुभं ज्ञात्वा सदा भवनमारभेत् ॥ चैत्रे व्याधिमवाप्नोति यो गृहं कारयेन्नरः । वैशाखे धनरत्नानि ज्यैष्ठे मृत्युं तथैव च ॥ आषाढे भृत्यरत्नानि पशुवर्ज्जमवाप्नुयात् । श्रावण भृत्यलाभञ्च हानिं भाद्रपदे तथा ॥ पत्नीनाशोऽश्वयुजे विन्द्यात् कार्त्तिके धन- धान्यकम् । मार्गशीर्षे तथा भक्तं पौषे तस्करतो भयम् ॥ लाभञ्च बहुशो विन्द्यादग्निं माघे विनिर्द्दिशेत् । फाल्गुने काञ्चनं पुत्त्रानिति कालबलं स्मृतम् ॥ अश्विनी रोहिणी मूलमुत्तरात्रयमैन्दवम् । स्वाती हस्तानुराधा च गृहारम्भे प्रशस्यते ॥ आदित्यभौमवर्ज्जन्तु सर्व्वे वाराः शुभावहाः । वज्रव्याघातशूलेषु व्यतीपातातिगण्डयोः ॥ विष्कम्भगण्डपरिघवर्ज्जं योगेषु कारयेत् । श्वेते मैत्रेय माहेन्द्रे गान्धर्व्वेऽभिजिद्रोहिणे । तथा वैराजसावित्रे मुहूर्त्ते गृहमारभेत् ॥ चन्द्रादित्यबलं लब्ध्वा लग्नं शुभनिरीक्षितम् । स्तम्भोच्छ्रायादि कर्हव्यमन्यत्र परिवर्ज्जयेत् ॥ प्रासादेष्वेवमेव स्यात् कूपवापीषु चैव हि । पूर्ब्बं भूमिं परीक्षेत पश्चाद्वास्तुं प्रकल्पयेत् ॥ श्वेता रक्ता तथा पीता कृष्णा चैवानुपूर्ब्बशः । विप्रादेः शस्यते भूमिरतः कार्य्यं परीक्षणम् ॥ विप्राणां मधुरास्वादा कषाया क्षत्त्रियस्य च । कषायकटुका तद्वद्वै श्यशूद्रेषु शस्यते ॥ रत्निमात्रे तु वै गर्त्तेष्वनुलिप्ते तु सर्व्वतः । घृतमामशरावस्थं कृत्वा वर्त्तिचतुष्टयम् । ज्वालयेत् भूपरीक्षार्थं पूर्ब्बं तत् सर्व्वदिङ्मुखम् ॥ दीप्तां पूर्ब्बादि गृह्णीयाद्वर्णानामनुपूर्व्वशः । वास्तुः सामूहिको नाम दीप्यते सर्व्वतस्तु यः ॥ शुभदः सर्व्ववर्णानां प्रासादेषु गृहेषु च । रत्निमात्रमधो गर्त्तं परीक्ष्यं खातपूरणे ॥ अधिके श्रेयमाप्नोति न्यूने हानिः समे समम् । हलकृष्टेऽथवा देशे शर्व्वबीजानि वापयेत् ॥ त्रिपञ्चसप्तमात्रेण यत्र रोहन्मि तान्यपि । ज्येष्ठोत्तमा कनिष्ठा भूर्वर्ज्जनीयतरा मता ॥ पञ्चगव्योषधिजलैः परीक्षित्वा च सेचयेत् ॥ एकाशीतिपदं कृत्वा रेखाभिः कनकेन तु । पश्चात् पिष्टेन चालिप्येत् सूत्रेणालोड्य सर्व्वतः ॥ दश पूर्ब्बायता रेखा दश चैवोत्तरायताः । सर्व्वा वास्तुविभागेषु विज्ञेया नवका नव ॥ एकाशीतिपदं कृत्वा वास्तुवित् सर्व्ववास्तुषु । पदस्थान् पूजयेद्देवांस्त्रिंशत् पञ्चदशैव तु ॥ द्बात्रिंशद्बाह्यतः पूज्याः पूज्याश्चान्तस्त्रयोदश । नामतस्तान् प्रवक्ष्यामि स्थानानि च निबोधत ॥ ईशानकोणादिषु तान् पूजयेद्धविषा नरः । शिखी चैवाथ पर्जन्यो जयन्तः कुलिशायुधः ॥ सूर्य्यसत्यौ भृशश्चैव आकाशो वायुरेव च । पूषा च वितथश्चैव गृहक्षतयमावुभौ ॥ गन्धर्व्वो भृङ्गराजश्च मृगः पितृगणस्तथा । दौवारिकोऽथ सुग्रीवः पुष्पदन्तो जलाधिपः ॥ असुरः शेषपापौ च रोगोऽहिर्मुख्य एव च । भल्लाटः सोमसर्पौ च अदितिश्च दितिस्तथा । बहिर्द्बात्रिंशदेते तु तदन्तश्चतुरः शृणु ॥ ईशानादिचतुष्कोणे संस्थितान् पूजयेद्यथा । आपश्चैवाथ सावित्रो जयो भद्रस्तथैव च ॥ मध्ये नवपदो ब्रह्मा तस्याष्टौ च समीपगान् । साध्या नैकान्तरान् विद्यात् पूर्ब्बाद्यान् नामतः शृणु ॥ अर्य्यमा सविता चैव विवस्वान् विबुधाधपः । मिथोऽथ राजयक्ष्मा च तथा पृथ्वीधरः स्मृतः ॥ अष्टमस्त्वापवत्सस्तु परितो ब्रह्मणः स्मृताः । आपश्चैवापवत्सश्च पर्जन्योऽग्निर्दितिस्तथा ॥ पदिकानाञ्च वर्गोऽयमेवं कोणेष्वशेषतः । तन्मध्ये तु वहिर्विंशत् द्विपदास्ते तु सर्व्वतः ॥ अर्य्यमा च विवस्वांश्च मित्रः पृथ्वीधरस्तथा । ब्रह्मणः परिधौ दिक्षु त्रिपदास्ते तु सर्व्वतः ॥ * ॥
वंशानिदानीं वक्ष्यामि ऋजूनपि पृथक् पृथक् । वायुं यावत्तथा रोगात् पितृभ्यः शिखिनं पुनः ॥ मुख्याद्भृशमथो शेषात् वितथं यावदेव तु । सुग्रीवाददितिं यावत् भृगोः पर्जन्यमेव च ॥ एते वंशाः समाख्याताः क्वचिद्दुर्ज्जय एव च । एतेषां यस्तु सम्पातः पदं मध्यं समन्ततः ॥ मर्म्म चैतत् समाख्यातं त्रिशूलं कोणगञ्च यत् । स्तम्भन्यासे तु वर्ज्यानि तुलाविधिषु सर्व्वदा ॥ कीलोच्छिष्टोपघातानि वर्ज्जयेद्यत्नतो नरः । सर्व्वत्र वास्तुर्निर्द्दिष्टः पितृवैश्वानरायतः ॥ मुर्द्धन्यग्निः समाविष्टो मुखे चापः समाहितः । पृथ्वीधरोऽर्य्यमा चैव तयोस्तावदधिष्ठितौ ॥ वक्षःस्थले चापवत्सः पूजनीयः सदा बुधैः । नेत्रयोर्दितिपर्ज्जन्यौ श्रोत्रेऽदितिजयन्तकौ ॥ सर्पेन्द्रा वंशसंस्थौ च पूजनीयौ प्रयत्नतः । सत्यरोगादयस्तद्वद्बाह्वोः पञ्च च पञ्च च ॥ रुद्रश्च राजयक्ष्मा च वामहस्ते समास्थितौ । सावित्रः सविता तद्बद्धस्तं दक्षिणमाश्रितौ ॥ विवस्वानथ मित्रश्च जठरे संव्यवस्थितौ । पूषा च पापयक्ष्मा च हस्तयोर्मणिबन्धने ॥ तथैवासुरसोमौ च वामपार्श्वे समास्थितौ । पार्श्वे तु दक्षिणे तद्वद्वितथः सगृहक्षतः ॥ उर्व्वोऽर्य्यमाम्बुपौ ज्ञेयौ जान्वोर्गन्धर्व्वपुष्पकौ । जङ्घयोर्भृगुसुग्रीवौ स्फिक्स्थौ दौवारिको मृगः ॥ जयशक्रौ तथा मेढ्रेपान्दयोः पितरस्तथा । मघ्ये नवपदो ब्रह्मा हृदये स तु पूज्यते ॥ चतुःषष्टिपदो वास्तुः प्रासादे ब्रह्मणा स्मृतः । ब्रह्मा चतुष्पदस्तत्र कोणेष्वर्द्धपदास्ततः ॥ बहिष्कोणे तु चाष्टौ तु सार्द्धाश्चोभयसंस्थिताः । विंशतिर्द्विपदाश्चैषां चतुःषष्टिपदे स्मृताः ॥ * ॥
गृहारम्भे तु कण्डूतिः स्वाम्यङ्गे यत्र जायते । शल्यस्त्वपनयेत्तत्र प्रासादे भवमेऽपि वा ॥ सशल्यं भयदं तस्मादशल्यं शुभदायकम् । हीनाधिकाङ्गभावांस्तु सर्व्वथा तु विवर्ज्जयेत् ॥ नगरग्रामदेशेषु सर्व्वत्रैवं प्रकल्पयेत् । चतुःशालं त्रिशालन्तु द्विशालञ्चैकशालकम् ॥ नामतस्तानि वक्ष्यामि स्वरूपेण द्बिजोत्तमाः ॥” इति मात्स्ये एकाशीतिपदवास्तुनिर्णयो नाम २२७ अध्यायः ॥ * ॥
सूत उवाच । “चतुःशालं प्रवक्ष्यामि स्वरूपान्नामतस्तथा । चतुःशालं द्बयद्वारैरलिन्दैः सर्व्वतोमुखम् ॥ नाम्ना तत् सर्व्वतोभद्रं शुभं देवनृपालये । पश्चिमद्बारहीनन्तु नन्द्यावर्त्तं प्रचक्ष्यते ॥ दक्षिणद्वारहीनं तदूर्द्ध्वमानमुदाहृतम् । पूर्ब्बद्वारविहीनन्तत् स्वस्तिकं नाम विश्रुतम् ॥ रुचकं चोत्तरद्वारविहीनं तत्प्रचक्ष्यते । सौम्यशालाविहीनन्तु त्रिशालं धन्यकञ्च तत् ॥ क्षेमवृद्धिकरं नॄणां बहुपुत्त्रफलप्रदम् । शालया पूर्ब्बया हीनं सुक्षेत्रमिति विश्रुतम् ॥ धन्यं यशस्यमायुष्यं शोकमोहविनाशनम् । चुल्ली तु याम्यया हीनं विशालं शालया तु यत् ॥ कुलक्षयकरं नॄणां सर्व्वव्याधिभयावहम् । हीनं पश्चिमया यत्तु पक्षघ्नं नाम तत् पुनः ॥ मित्रबन्धुसुतान् हन्ति तथा सर्पभवावहम् । याम्यापराभ्यां शालाभ्यां धनधान्यफलप्रदम् ॥ क्षेमवृद्धिकरं नॄणां तथा पुत्त्रफलप्रदम् । यमं सूर्य्यञ्च विज्ञेयं पश्चिमोत्तरशालकम् ॥ राजाग्निमयदं नॄणां कुलक्षयकरञ्च तत् । उदक्पूर्व्वे तु शाले द्वे दण्डाख्ये यत्र तद्भवेत् ॥ अकालमृत्युभयदं परचक्रभयावहम् । धनाख्यं यामपूर्ब्बाभ्यां शालाभ्यां यद्द्विशालकम् ॥ तच्छस्त्रभयदं नॄणां पराभवभयावहम् । चुल्ली पूर्ब्बापराभ्यान्तु सा भवेत् मृत्युसूचनी ॥ वधबन्धाय शस्त्राणामनेकभयकारकम् । काचमुत्तरयामाभ्यां शालाभ्यां भयदं नृणाम् ॥ सिद्धार्थवर्ज्यं वर्ज्यानि द्विशालानि सदा बुधैः ॥ * ॥
अथातः संप्रवक्ष्यामि भवनं पृथिवीपतेः । पञ्चप्रकारं तत् प्रोक्तमुत्तमादिविभेदतः ॥ अष्टोत्तरं हस्तशतं विस्तारश्चोत्तमो मतः । चतुर्ष्वन्येषु विस्तारो हीयते चाष्टभिः करैः ॥ चतुर्थांशाधिकं दैर्घ्यं पञ्चस्वपि निगद्यते । युवराजस्य वक्ष्यामि तथा भवनपञ्चकम् ॥ षड्भिः षड्भिस्तथाशीतिर्हीयते तत्र विस्त- रात् । त्र्यंशेन चाधिकं दैर्घ्यं पञ्चस्वपि निगद्यते ॥ * ॥
सेनापतेः प्रवक्ष्यामि सदा भवनपञ्चकम् । चतुःषष्टिन्तु विस्तारात् षड्भिः षड्भिस्तु हीयते ॥ पञ्चस्वतेषु दैर्घ्यञ्च षड्भागेनाधिकं भवेत् ॥ * ॥
मन्त्रिणामथ वक्ष्यामि तथा भवनपञ्चकम् ॥ चतुश्चतुर्भिर्हीना स्यात् करषष्टिः प्रविस्तरे । अष्टांशेनाधिकं दैर्घ्यं पञ्चस्वपि निगद्यते ॥ * ॥
सामन्तामात्यलोकानां वक्ष्ये भवनपञ्चकम् । चत्वारिंशत्तथाष्टौ च चतुर्भिर्हीयते क्रमात् ॥ चतर्थांशाधिकं दैर्घ्यं पञ्चस्वेतेषु शस्यते । * । शिल्पिनां कञ्चुकीनाञ्च वैश्यानां गृहपञ्चकम् ॥ अष्टाविंशत् कराणान्तु द्बिहीनं विस्तरेण तत् । द्विगुणं दैर्घ्यमेवोक्तं मध्यमेष्वेवमेव तु ॥ * ॥
दूतकर्म्मान्तिकादीनां वक्ष्ये भवनपञ्चकम् । चतुर्थांशाधिकं दैर्घ्यं विस्तारो द्वादशैव तु ॥ अध्यर्द्ध्वकरहानिः स्यात् विस्तारात् पञ्चसु क्रमात् । * । दैवज्ञगुरुवैद्यानां सभास्तारपुरोधसाम् ॥ तेषामपि प्रवक्ष्यामि सदा भवनपञ्चकम् । चत्वारिंशच्च विस्ताराच्चतुर्भिर्हीयते क्रमात् ॥ पञ्चस्वेतेषु दैर्घ्यञ्च षड्भागेनाधिकं भवेत् । * । चतुर्व्वर्णस्व वक्ष्यामि सामान्यं गृहपञ्चकम् ॥ द्बात्रिंशकं कराणान्तु चतुर्भिर्हीयते क्रमात् । आषोडशादिति परं नूनमन्त्यावसायिनाम् ॥ दशांशेनाष्टभागेन त्रिभागेणाथ पादिकम् । अधिकं दैर्घ्यमित्याहुर्ब्राह्मणादेः प्रशस्यते ॥ सेनापतेर्नृपस्यापि गृहस्यैवोत्तरेण तु । नृपवासगृहं कार्य्यं भाण्डागारन्तथैव च ॥ सेनापतेर्गृहस्यापि चातुर्व्वर्ण्यस्य चान्तरम् । वासकोषगृहं कार्य्यं राजपूज्येषु सर्व्वदा ॥ अन्तरप्रभवाणाञ्च स्वपितुर्दूरमिष्यते । तथा हस्तशतादर्व्वाक् गदितं वनवासिनाम् ॥ सेनांपतेर्नृपस्यापि सप्तत्या सहितेऽन्विते । चतुर्द्दशहृते व्यासे शालान्यासः प्रकीर्त्तितः ॥ पञ्चत्रिंशद्धृते तस्मिन् अलिन्दः समुदाहृतः । तथा षट्त्रिंशद्धस्तात्तु सप्ताङ्गुलसमन्वितः ॥ विप्रस्य महती शाला न दैर्घ्यं परतो भवेत् । दशाङ्गुलाधिका तद्वत् क्षत्त्रियस्य विधीयते ॥ पञ्चत्रिंशत् करा वैश्ये अङ्गुलानि त्रयोदश । तावत्करैस्तु शूद्रस्य युता पञ्चदशाङ्गुलैः ॥ शालायास्तु त्रिभागेण यस्याग्रे वीथिका भवेत् । सोष्णीशं नाम तद्वास्तु पश्चाच्छायोच्छ्रयम्भवेत् ॥ पार्श्वयोर्वीथिका यत्र सावष्टम्भन्तदुच्यते । समन्ताद्वीथिका यत्र सुस्थितं तदिहोच्यते ॥ शुभदं सर्व्वमेतत् स्यात् चातुर्वर्ण्यञ्चतुर्व्विधम् । विस्तरात् षोडशो भागस्तथा हस्तचतुष्टयम् ॥ प्रथमो भूमिक्रोच्छ्राय उपरिष्टात् प्रहीयते । द्वादशांशेन सर्व्वासु भूमिकासु तथोच्छ्रयः ॥ पक्वेष्टके भवेद्भित्तिः षोडशांशेन विस्तरात् । दानवेन विकल्पः स्यात् तथा मृण्मयभित्तिके ॥ गर्भमानेन मानन्तु सर्व्ववास्तुषु शस्यते । गृहवासस्य पञ्चाशदष्टादशभिरङ्गुलैः ॥ संयुतो द्वारनिष्कम्भो द्विगुणश्चोच्छ्रयो भवेत् । द्वारशाखासु बाहुल्यमुच्छ्रायं करसम्मितैः ॥ अङ्गुलैः सर्व्ववास्तूनां पृथुत्वं शस्यते बुधैः । उदुम्बरोत्तराङ्गे च तदर्द्धार्द्धं प्रविस्तरैः ॥” इति मात्स्ये वास्तुविद्यासु गृहमाननिर्णयो नाम २२८ अथ्यायः ॥ * ॥
सूत उवाच । “अथातः संप्रवक्ष्यामि स्तम्भमानविनिर्णयम् । कृत्वा स्वभवनोच्छ्रायं सदा सप्तगुणं बुधः ॥ अशीत्यन्तं पृथुत्वं स्यादग्रे नवगुणैः सह । रुचकञ्चतुरस्रः स्यादष्टांशो वज्र उच्यते ॥ द्विवज्रः षोडशास्रस्तु द्बादशास्रः प्रलीनकः । मध्यप्रदेशे यः स्तम्भो वृत्तो वृत्त इति स्मृतः ॥ एतेपञ्च महास्तम्भाः प्रशस्ताः सर्व्ववास्तुषु । पद्मवल्लीलता कार्य्या पत्रदर्शनरूपिता ॥ स्तम्भस्य नवमांशेन पद्मकुम्भोत्तराणि च । स्तम्भतुल्या तुला प्रोक्ता हीनाश्चोपतुला ततः ॥ त्रिभागेणेह सर्व्वत्र चतुर्भागेण वा पुनः । हीनं हीनञ्चतुर्थांशात्तथा सर्व्वासु भूमिषु ॥ वासगेहानि सर्व्वेषां प्रवेशे दक्षिणेन तु । * । द्वाराणि तु प्रवक्ष्यामि प्रशस्तानीह तानि तु ॥ पूर्ब्बेणेन्द्रं जयन्तञ्च द्वारं सर्व्वत्र शस्यते । याम्यञ्च वितथञ्चैध दक्षिणेन विदुर्बधाः ॥ पश्चिमे पुष्पदन्तञ्च वारुणञ्च प्रशस्यते । उत्तरेण तु भल्लाटं सौम्यञ्च शुभदं भवेत् ॥ तथा वास्तुसु सर्व्वत्र वेधं द्वारस्य वर्ज्जयेत् । द्वारे तु रथ्यया विद्धे भवेत् सर्व्वकुलक्षयः ॥ तरुणा दोषबाहुल्यं शोकः पङ्केन जायते । अपस्मारो भवेन्नूनं कूपवेधेन सर्व्वदा ॥ व्यथा प्रस्रवणेन स्यात् कीलेनाग्निभयम्भवेत् । विनाशो देवताविद्धे स्तम्भेन स्त्रीहृतो भवेत् ॥ गृहभर्त्तुर्विनाशः स्यात् गृहेण च गृहे कृते । अमेध्यावस्करैर्व्विद्धे गृहिणीबन्धनम्भवेत् ॥ तथा शस्त्रभयं विद्यादन्त्यजस्य गृहेण तु । उच्छ्रायद्बिगुणां भूमिं त्यक्त्वा वेधो न विद्यते ॥ स्वयमुद्घाटिते द्वारे उन्मादो गृहमेधिनाम् । स्वयञ्च पिहिते विन्द्यात् कुलनाशं विचक्षणः ॥ मानाधिके राजभयं नीचे तस्करतो भयम् । द्वारोपरि च यद्द्वारं तदन्तकमुखं स्मृतम् ॥ आध्वानं मध्यदेशे तु अधिको यस्य विस्तरः । वज्रन्तु शकटं मध्ये सद्यो भर्त्तृविनाशनम् ॥ तथान्यपीडितद्वारं बहुदोषकरम्भवेत् । मूलद्वारं तथान्यन्तु नाधिकं शोभनम्भवेत् ॥ कुम्भश्रीपर्णिवल्लीभिर्मू लद्वारन्तु शोभयेत् । पूजयेच्चापि तन्नित्यं वलिना चाक्षतोदकैः ॥ * ॥
भवनस्य वटः पूर्ब्बे दिग्भागे सर्व्वकालिकः । उडुम्बरस्तथा याम्ये वारुणे पिप्पलः शुभः ॥ प्लक्षश्चोत्तरतो धन्यो विपरीतस्त्वसिद्धये । कण्टकी क्षीरवृक्षश्च आसन्नः सफलो द्रुमः ॥ भयं हानिं प्रजाहानिं कुर्व्वन्ति क्रमशः सदा । न च्छिन्द्याद्यदि तानन्यानन्तरे स्थापयेत् शुभान् । पुन्नागाशोकवकुलशमीतिलकचम्पकान् । दाडिमी पिप्पली द्राक्षा तथा कुसुममण्डपम् ॥ जम्बीरपूगपनसद्रुमकेतकीभि- र्जातीसरोजशतपत्रिकमल्लिकाभिः । यन्नारिकेलकदलीदलपाटलाभि- र्युक्तं तदत्र भवनं श्रियमातनोति ॥” इति मात्स्ये वास्तुविद्यासु वेधपरिवर्ज्जनो नाम २२९ अध्यायः ॥ * ॥
सूत उवाच । “उदगादिप्लवं वास्तु समानशिरसन्तथा । परीक्ष्य पूर्ब्बवत् कुर्य्यात् स्तम्भोच्छ्रायं विचक्षणः ॥ न देवधूर्त्तसचिवचत्वराणां समीपतः । कारयेद्भवनं प्राज्ञो दुःखशोकभयं यतः ॥ तस्य प्रवेशाश्चत्वारस्तस्योत्सङ्गोऽग्रतः शुभः । पृष्ठतः पृष्ठभङ्गस्तु सव्यावर्त्तः प्रशस्यते ॥ अपसव्यो विनाशाय दक्षिणे शीर्णकस्तथा । सर्व्वकामफलो नॄणां संपूर्णो नाम वामतः ॥ एवं प्रवेशमालोक्य यत्नेन गृहमारभेत् । * । अथ संवत्सरे पूर्णे मुहूर्त्ते शुभलक्षणे ॥ रत्नोपरि शिलां कृत्वा सर्व्वबीजसमन्विताम् । चतुभिर्ब्राह्मणैस्तम्भं वस्त्रालङ्कारपूजितम् ॥ शुक्लाम्बरधरः शिल्पी सहितो वेदपारगैः । स्थापितं विन्यसेत् तद्वत् सर्व्वौषधिसमन्वितम् ॥ नानाक्षतफलोपेतं वस्त्रताम्बूलसंयुतम् । ब्रह्मघोषेण वाद्येन गीतमङ्गलनिस्वनैः ॥ पायसं भोजयेद्विप्रान् होमस्तु मधुसर्पिषा । वास्तोस्पते प्रतिजानीहि मन्त्रेणानेन सर्व्वदा ॥ सूत्रपाते तथा कार्य्यमेवं स्तम्भोदये पुनः । द्वारबन्धोच्छ्रये तद्बत् प्रवेशसमये तथा ॥ वास्तूपशमने तद्वत् वास्तुयज्ञस्तु पञ्चधा । ईशाने सूत्रपातः स्यादाग्नेये स्तम्भरोपणम् ॥ प्रदक्षिणञ्च कुर्व्वीत वास्तोः पदविलेखनम् । तर्ज्जनी मध्यमा चैव तथाङ्गुष्ठस्तु दक्षिणे । प्रबालरत्नकनकं फलपिष्टकृतोदकम् । सर्व्ववास्तुविभागेषु शस्तम्पद्विलेखने ॥ न भस्माङ्गारकाष्ठेन न शस्त्रनखचर्म्मभिः । न च सास्थिकपालेन क्वचिद्वास्तु प्रलेखयेत् ॥ एभिर्विलेखितं कुर्य्यात् दुःखशोकामयादिकम् । यदा गृहप्रवेशः स्याञ्छिल्पी तत्रोपलेखयेत् ॥ स्तम्भसूत्रादिके तद्वत् शुभाशुभफलोदयम् । * । आदित्याभिमुखं रौति शकुनः परुषं यदि ॥ तुल्यकालं स्पृशेदङ्गं गृहभर्त्तुः समात्मनः । वास्त्वङ्गे तद्विजानीयान्नरशल्यं भयप्रदम् ॥ शकुनानन्तरं तत्र हस्त्यश्वश्वापदम्भवेत् । तदङ्गसम्भवं विद्यात्तत्र शल्यं विचक्षणः ॥ प्रसार्य्यमाणे सूत्रे तु श्वगोमायुविलङ्घिते । तत्र शल्यं विजानीयात् खरशब्दे च भैरवे ॥ यदीशान्तेऽथ दिग्भागे मधुरं रौति वायसः । धनन्तत्र विजानीयादङ्गे वा स्वाम्यधिष्ठिते ॥ सूत्रच्छेदे भवेन्मृत्युर्व्याधिः कीले त्वधोमुखे । अङ्गारेषु तथोन्मादं कपालेषु च सम्भ्रमम् । कम्बुशल्ये च जानीयात् पुंश्चल्यं स्त्रीषु वास्तुवित् । गृहभर्त्तुर्गृ हस्यापि विनाशः शिल्पिसम्भ्रमे ॥ स्तम्भस्थाने च्युते कुम्भे शिरोरोगं विनिर्द्दिशेत् । कुम्भापहारे सर्व्वस्य कुलस्यापि क्षयो भवेत् ॥ मृत्युं स्थानच्युते कुम्भे भग्ने बन्धं विदुर्ब्बुधाः । करसंख्याविनाशे तु नाशं गृहपतेर्विदुः ॥ बीजौषधिविहीने तु भूतेभ्यो भयमादिशेत् । प्राग्दक्षिणेन विन्यस्य स्तम्भे च्छत्रं विवेशयेत् ॥ ततः प्रदक्षिणेनान्यन्न्यसेत् स्तम्भं विचक्षणः । यस्माद्भयकरं नॄणां योजितान्यप्रदक्षिणम् ॥ रक्षां कुर्व्वीत यत्नेन स्तम्भोपद्रवनाशिनीम् । तथा फलवतीं शाखां स्तम्भोपरि निवेशयेत् ॥ प्रागुद्रक्प्लवनं कार्य्य द्बिमुखन्तु न कारयेत् । स्तम्भंवा भवनं वापि द्बारंवा स्वगृहन्तथा ॥ दिङ्मूढे कुलनाशः स्यात् न च सम्बर्द्धयेद्गृहम् । यदि सम्बर्द्धयेद्गेहं सर्व्वदिक्षु विवर्द्धयेत् ॥ पूर्व्वेण वर्द्धितं बास्तु कुर्य्याद्बैराणि वै सदा । दक्षिणे वर्द्धितं वास्तु मृत्यवे स्यान्न संसयः ॥ पश्चाद्वृद्धन्तु यद्वास्तु तदर्थक्षयकारकम् । वर्द्धायितं तथा सौम्ये बहुसन्तापकारकम् ॥ आग्नेये यत्र वृद्धिः स्यात् तदग्निभयदम्भवेत् । वर्द्धितं राक्षसे कोणे शिशुक्षयकरं भवेत् ॥ वर्द्धायितन्तु वायव्ये वातव्याधिप्रकोपकृत् । ईशाने तु प्रजाहानिर्वास्तौ सम्बर्द्धिते सदा ॥ * ॥
ईशाने देवतागारं तथा शान्तिगृहं भवेत् । महानसं तथाग्नेये तत्पार्श्वे चोत्तरं जलम् ॥ गृहस्योपस्करं सर्व्वं नैरृते स्थापयेद्बुधः । बन्धस्थानं बहिःकुर्य्यात् स्नानमण्डपमेव च ॥ धनधान्यञ्च वायव्ये कर्म्मशाला ततो बहिः । एवं वास्तुनिवेशः स्यात् गृहभर्त्तुः शुभावहः ॥” इति मात्स्ये वास्तुविद्यागृहनिर्णयो नाम २३० अध्यायः ॥ * ॥
सूत उवाच । “अथातः संप्रक्ष्यामि दार्व्वाहरणमुत्तमम् । धनिष्ठापञ्चकं त्यक्त्वा विष्ट्यादिकमतः परम् ॥ ततः साम्बत्सरोद्दिष्टे दिने यायाद्वनं बुधः । प्रथमं वलिपूजान्तु कुर्य्यात् वृक्षाय सर्व्वदा ॥ पूर्व्वोत्तरेण पतितं गृहे दारु प्रशस्यते । अन्यथा न शुभं विद्याद्याम्यापरनिपातने ॥ क्षीरवृक्षोद्भवं दारु न गृहे विनिवेशयेत् । कृताधिवासं विहगैरनिलानलपीडितम् ॥ गजावभग्नञ्च तथा विद्युन्निर्घातपीडितम् । अर्द्धशुष्कं तथा दारु भग्नशुष्कं तथैव च ॥ चैत्यदेवालयोत्पन्नं नदीसङ्गमजन्तथा । श्मशानकूपनिलयं तडागादिसमुद्भवम् ॥ वर्ज्जयेत् सर्व्वथा दारु यदीच्छेद्विपुलां श्रियम् । तथा कण्टकिनो वृक्षान्नीपनिम्बविभीतकान् ॥ श्लेष्मातकान् एलतरून् वर्ज्जयेत् गृहकर्म्मणि । अशनं शाकमधुकसर्ज्जशालाः शुभावहाः ॥ चन्दनं पनसं धन्यं सुरदारु हरिद्रका । द्वाभ्यामेकेन वा कुर्य्यात् त्रिभिर्व्वा भवनं शुभम् ॥ बहुभिः कारितं यस्मादनेकभयदं भवेत् । एकैकं शिंशपा ध्रन्या श्रीपर्णी तिन्दुकी तथा ॥ एता नान्यसमायुक्ता कदाचिच्छुभकारिकाः । स्यन्दनः पनसस्तद्वत् सरलार्ज्जुनपद्मकाः ॥ एते नान्यसमायुक्ता बास्तुकार्य्ये शुभप्रदाः । तरुच्छेदे महापीते गोधां विद्याद्बिचक्षणः ॥ माञ्जिष्ठवर्णे भेकः स्यात् नीले सर्पं विनिर्द्दिशेत् । अरुणे सरटं विद्यात् मुक्ताभे शुकमादिशेत् ॥ कपिले मूषिकां विद्यात् खड्गाभे जलमादिशेत् । एवंविधं सगर्भन्तु वर्ज्जयेद्वास्तुकर्म्मणि ॥ पूर्व्वं छिन्नन्तु शृह्णीयात् निमित्तं शकुनैः शुभैः । * । व्यासेन गुणि दैर्घे अष्टभिर्वै हते तथा ॥ यच्छेषमायतं विद्यादष्टभेदं वदामि वः । ध्वजो धूमश्च सिंहश्च श्वा वृषः खर एव च ॥ हस्ती ध्वाङ्क्षश्च पूर्ब्बाद्याः करिशेषा भवन्त्यमी । ध्वजः सर्व्वमुखो धन्यः प्रत्यग्वारो विशेषतः ॥ उदङ्मुखो भवेत् सिंहः प्राङ्मुखो वृषभो भवेत् । दक्षिणाभिमुखो हस्ती सप्तभिः स उदाहृतः ॥ एकेन ध्वज उद्दिष्टस्त्रिभिः सिंह उदाहृतः । पञ्चभिर्वृषभः प्रोक्तो विकोणस्थांस्तु वर्ज्जयेत् ॥ तमेवाष्टगुणं कृत्वा विद्याद्राशिं विचक्षणः । सप्तविंशद्धृते भागे ऋक्षं विद्याद्बिचक्षणः ॥ अष्टभिर्भाजिते ऋक्षे यच्छेषं स व्ययो मतः । व्ययाधिकं न कुर्व्वीत यतो दोषकरम्भवेत् । आयाधिके भवेच्छान्तिरित्याह भगवान् हरिः ॥ कृत्वाग्रतो द्बिजवरानथ पूर्णकुम्भं दध्यक्षताम्रदलपुष्पफलोपशोभम् । दत्त्वा हिरण्यवसनानि तथा द्विजेभ्यो माङ्गल्यशान्तिनिलयाय गृहं विशेच्च ॥ गृह्योक्तहोमविधिना वलिकर्म्म कुर्य्यात् प्रासादवास्तुशमने च विधिर्य उक्तः । सन्तर्पयेत् द्विजवरानथ भक्ष्यभोज्यैः शुक्लाम्बरश्च भवनं प्रविशेत् सधूमम् ॥” इति मात्स्ये वास्तुविद्यानुकीर्त्तनं समाप्तम् २३१ अध्यायः ॥ * ॥
अन्यच्च । अथ वास्तुयुक्तिः । तत्र स्थाननिर्णयः । “नदीश्मशानशैलानां वनस्य निकटे तथा । न वास्तुकर्म्म कुर्व्वीत न द्वन्द्व-नगरान्तयोः ॥” * ॥
तत्र दिङ्निर्णयः । “राक्षसानिलवह्नीनां यमस्य दिशि वेश्मनः । नारम्भं कारयेद्राजा भीरुग्दाहक्षयप्रदम् ॥” तथा हि । “भोगः कीर्त्तिर्धनं रोगः स्थिरता च भयः क्षयः । दाह इत्येव कथितो दिशि वास्तुफलोद्भवः ॥” भोजे च । “यल्लग्ने जायते राजा तस्य लग्नस्य यः पतिः । या दिक् तस्य नृपस्तस्यां वास्त्वारम्भं समा- चरेत् ॥” एवञ्च । “कुजाधिपतिके मेषलग्ने जातस्य भूपतेः ॥” कुजाधिपतिकायां दक्षिणस्यामपि वास्तुर्न दुष्यतीति । पराशरस्तु । “यद्दशाजनितो राजा वास्तुस्तम्भस्तु तद्दिशि ॥” एतेन सूर्य्यादिजनितस्य नृपतेः पूर्ब्बादिदिक्षु वास्तुकरणम् । तेन शुक्रदशायां जातस्याग्ने- य्यामपि न दुष्यति ॥ * ॥
अथ लक्षणम् । “वास्तु कुर्य्यान्महीपालः समं सुस्निग्धमृत्तिकम् । प्रागुदक्प्लवनं रम्यं रम्यवृक्षोपशोभितम् ॥ लक्ष्मीर्द्दाहः क्षयो भीतिर्धननाशोऽभ्यशून्यता । सम्पद्वृद्धिरिति प्रोक्तं पूर्ब्बादिककुभां फलम् ॥” तथा हि प्लवनमन्यत् । “जन्मलग्नेन दिक् पश्चात् राज्ञां वास्तुप्लवोमतः ॥” एतेन सूर्य्याधिपतितुलालग्ने जातस्य नृपतेः सूर्य्याधिपतेः पूर्ब्बस्याः पश्चात् पश्चिमप्लवोऽपि न दुष्यति । अन्ये तु । “यद्दशाजनितो राजा तद्दिशोग्रप्लवो मतः ॥” एतेन गुरुदशाजातस्य नृपतेर्द्दक्षिणप्लवोऽपि न दुष्यति । अन्यत्र तु । “ब्रह्मक्षत्त्रियविट्शूद्राः पूर्ब्बादिदिग्युगे क्रमात् । वास्तुप्लवनमिच्छन्ति निजसम्पत्तिहेतवे ॥” नीतिशास्त्रे च । “वास्तुकर्म्म नृपः कुर्य्याद्बलवद्वैरिणो दिशि । दीर्धा वा चतुरस्रा वा वास्तुभूमिर्म्महीक्षिताम् । एतयोर्लक्षणं तद्वत् फलञ्च नगरे यथा ॥” * ॥
अथ मानम् । “राजकाण्डेन नृपतिर्वास्त्वारम्भं समाचरेत् । जयो भङ्गः सुखं दुःखं प्रीतिर्भीतिश्च यः स्थिरः । इत्यष्टौ वास्तुनामानि राजकाण्डैरनुक्रमात् ॥” अन्यत्र तु । “जन्मलग्ने महीभर्त्तुर्द्दण्डयोरन्त एव हि । राजकाण्डैस्तु तावद्भिर्वास्तु कुर्य्यान्महीपतिः ॥ सुदर्शाच्छन्दसंख्येन राजपट्टेन भूपतेः । वास्तुकर्म्मसमारम्भो धनधान्यजयप्रदः ॥” एतयोरपि पूर्ब्बवद्व्याख्यानम् । “राजच्छत्रेण कुत्रापि वास्तुपत्तनमिष्यते । तस्यापि पूर्व्ववन्मानमिति भागुरिभाषितम् ॥” अथ दोषगुणौ । “परनिर्म्मितवास्तुस्थो न तिष्ठति चिरं नृपः । न सुखाय न धर्म्माय तत्तस्य भुवि जायते ॥” अन्यत्रापि । “राजान्यवीर्य्यप्रत्याशी परवास्तुकृतस्थितिः । न सुखाय भवेन्नॄणां यथा परगृहे ग्रहः ॥ यः स्वनिर्म्मितवास्तुस्थो निजलग्नादिसंयुतः । विचा


शब्दकल्पद्रुमः

वास्तु || क्ली वास्तूकशाकम् । इति राजनिर्घण्टः ॥



Correction: