वाचस्पत्यम्
वास्तूक || न० वास्तु स्वार्थे क पृषो० दीर्थः । (वेतुय) १ शाके भावप्र० २ चिल्लीशाके स्त्री गौरा० ङीष् राजनि० । “वास्तूक वास्तुकं च स्यात् क्षारपत्रञ्च शाकराट् । तदेव तु वृहत् पत्रं रक्तं स्याद् गोडवास्तकम् । प्रायशो यव- मध्य स्यात यावत् शाकमतः स्मृतम् । वास्तूकद्वितयं स्यादु क्षारं पाके कटूदितम् । दोपनं पाचनं रुच्यं लघु शुकबलपदम् । सरं प्लोहास्रपित्तास्रक्रमिदोषत्रया- पहम्” भावप्र० ।
शब्दकल्पद्रुमः
वास्तूकं || क्ली (वसन्ति गुणा अत्रेति । वस + ऊलूकादयश्चेति साधुः ।)
शाकविशेषः । वेतुया इति भाषा । तत्पर्य्यायः । वास्तू २ वास्तुकम् ३ वसुकम् ४ वस्तूकम् ५ हिलमोचिका ६ शाक- राजः ७ राजशाकः ८ चक्रवर्त्ती ९ । अस्य गुणाः । मधुरत्वम् । सुशीतलत्वम् । क्षारत्वम् । मादनत्वम् । त्रिदोषजित्त्वम् । रोचनत्वम् । ज्वरहरत्वम् । महार्शसां नाशनत्वम् । मल- मूत्रशुद्धिकारित्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “वास्तू कं वास्तुकञ्च स्यात् क्षारपत्रञ्च शाक- राट् । तदेव तु बृहत्पत्रं रक्तं स्याद्गौडवास्तुकम् ॥ प्रायशो यवमध्ये स्यात् यावत् शाकमतः स्मृतम् । वास्तू कद्बितयं स्वादु क्षारं पाके कटूदितम् ॥ दीपनं पाचनं रुच्यं लघु शुक्रबलप्रदम् । सरं प्लीहास्रपित्तास्रकृमिदोषत्रयापहम् ॥” इति भावप्रकाशः ॥