वाचस्पत्यम्
वास्त्र || पु० वस्त्र णादृत । रथः अण् । वस्त्रेण सम्यगावृते रथे अमरः ।
शब्दकल्पद्रुमः
वास्त्रः || पुं, (वस्त्रेण परिवृतो रथः । वस्त्र + “परि- वृतो रथः ।” ४ । २ । १० । इति अण् ।)
वस्त्रावृतरथः । इत्यमरः । २ । ८ । ५४ ॥ त्रि, वस्त्रसम्बन्धी ॥