संस्कृत-शब्दकोशः

वास्थ वास्पेय

वास्प

वाचस्पत्यम्

वास्प is an alternate of वाष्प. वाष्प(स्प) ||‍ पु० वा—प ष(सु)क् च । १ ऊष्मणि २ लोहे मेदि० ३ चक्षुर्जले च अमरः । संज्ञायां कन् । ४ मारिषशाके (नटिया) पुंस्त्री० शब्दर० वा गौ० ङीष् । वाष्पी + (स्पी)- स्वार्थे क । वाष्पि(स्पि)काप्यत्र अमरः । “मारिषो वाष्पको मार्षः श्वेतो रक्तश्च स स्मृतः । मा- रिषो मधुरः शीतो विष्टम्भी पित्तकृद् गुरुः । वात- श्लेष्मकरो रक्तपित्तनुद् विषमाग्निजित् । रक्तमार्षो गुरुर्नादिसक्षारो मधुरः सरः । श्लेष्मलः कटुकः पाके स्वल्पदोष उदोरितः” भावप्र० ।


शब्दकल्पद्रुमः

वास्पः is an alternate of बास्पः. बा(वा)स्पः || (ष्पः)
पुं, (बाधते नेत्रे इति । बाध + “खष्पशिल्पशष्पबास्परूपपर्पतस्पाः ।” उणां । ३ । २८ । इति पः । निपात्यते च ।)
उष्म । अश्रु । इत्यमरः । ३ । ३ । १३० ॥ (यथा, रघौ । ८ । ७० । “अकरोत् पृथिवीरुहानपि स्रुतशाखारसबास्पदूषितान् ॥”)


शब्दकल्पद्रुमः

वास्पः || पुं, उष्मा । लोहम् । इति केचित् ॥ मूर्द्धन्य- मध्य इति साधुपाठः ॥



Correction: