वाचस्पत्यम्
वाह is an alternate of बाह. बा(वा)ह || प्रयत्ने भ्वादि० आत्म० अक० सेट् । बा(वा)हते अबा(वा)हिष्ट । ऋदित् चङि न ह्रस्वः अबबाहत् त ।
वाचस्पत्यम्
वाह || पुंस्त्री० उह्यतऽनन असौ वा गवादिना वा वह—घञ् । १ अश्वे “वाहो भारचतुष्टयम्” इत्यक्ते २ परिमाणभेदे च अमरः । ३ भुजे ४ वायौ पु० ५ वृषे च पुस्त्रा० शब्दर० स्त्रिया जातित्वे ङीष् । अमरः वाहरिप्वादयोऽप्यत्र ।
वाचस्पत्यम्
वाह || यत्ने भ्वा० आ० अक० सेट् ऋदित् चङि न ह्रस्वः । वाहते अवाहिष्ट ।
शब्दकल्पद्रुमः
वाह || ऋ ङ यत्ने । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-अक०-सेट् ।)
ऋ, अववाहत् । ङ, वाहते । ववाह रक्तं पुरुषास्ततो जाताः सह- स्रशः इत्यादि सिद्ध्यर्थमोष्ठ्यादिश्च वहधातुं मन्येते वर्णदेशशरणदेवौ । वस्तुतस्तु बहुवाद्य- सम्मतत्वादेवोष्ठ्यादिरनेनोपेक्षितः ववाहेति चण्डीप्रयोगस्य तु वाह ऋ ङ यत्ने इत्यस्मात् गणकृतानित्यत्वात् परस्मैपदसिद्धिः अनेकार्थ- त्वात् सुस्रावेत्यर्थः । अथवा वव इत्याह इत्येव व्याख्यानम् । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
वाहः || पुं, (उह्यतेऽनेनेति । वह + करणे घञ् ।)
घोटकः । (यथा, अध्यात्मरामायणे । २ । ५ । ५६ । “इत्याज्ञप्तः सुमन्त्रोऽपि रथं वाहैरयोजयत् ॥”)
परिमाणविशेषः । इत्यमरः ॥ यथाहुः । “पलं प्रकुञ्चकं मुष्टिः कुडवस्तच्चतुष्टयम् । चत्वारः कुडवाः प्रस्थश्चतुःप्रस्थमथाढकम् ॥ अष्टाढको भवेत् द्रोणो द्विद्रोणः सूर्प उच्यते । सार्द्धसूर्पो भवेत् खारीद्बे खार्य्यौ गोण्युदाहृता । तामेव भारं जानीयात् वाहो भारचतुष्टयम् ॥” इति भरतः ॥ चतुर्द्दशभेदात् संख्यान्यथात्वम् । तथा च । “चतुराढको द्रोणः षोडशद्रोणा खारी । विंशतिद्रोणः कुम्भः दशकुम्भो वाहः । इति स्वामी ॥ * ॥
भुजः । वृषः । वायुः । इति शब्दरत्नावली ॥ (प्रवाहः । यथा, कथासरित्- सागरे । ९३ । ८१ । “यत्रार्च्चिराज्यधूमादिमार्गाविव समागतौ । गङ्गायमुनयोर्वाहौ भातः सुगतये नृणाम् ॥” वाहनम् । यथा, तत्रैव । ६२ । १५७ । “तच्छ्रुत्वा तत्र भेकानां राजा वाहसमुत्सुकः । जलादुत्तीर्य्य तत्पृष्ठमारोहत् गतभीर्मुदा ॥”)