संस्कृत-शब्दकोशः

वाहश्रेष्ठ वाहा

वाहस

वाचस्पत्यम्

वाहस ||‍ पु० वाहं गतिं स्यति सो—क । १ अजगरे अमरः । २ सुनिषणके (सुसनि) शाके ३ परिमाणे च मेदि० ।


शब्दकल्पद्रुमः

वाहसः || पुं, (उह्यते इति । वह + “वहियुभ्यां णित् ।” उणा० ३ । ११९ । इति असच् । सच णित् ।)
अजगरः । इत्यमरः ॥ (यथा, तैत्ति- रीयसंहितायाम् । ५ । ५ । १४ । १ । “त्वाष्ट्राः प्रतिश्रत्कायै वाहसः ॥”)
वारिनिर्य्याणम् । सुनिषण्णकम् । इति मेदिनी । से, ३७ ॥



Correction: