संस्कृत-शब्दकोशः

वाहित्थ वाहिनीपति

वाहिनी

वाचस्पत्यम्

वाहिनी ||‍ स्त्री वाहोऽस्त्यस्याः इनि ङीप् । १ सेनायां, २ हस्त्यश्वादिसंख्याभेदान्विते सैन्थभेदे अनीकिनीशब्दे १६९ पृ० दृश्यम् । वहति वह—णिनि । २ नद्याम् अमरः । “वाहित्यः पार्श्वमेता न जहति भवतः” काव्यप्रकाशः ।


शब्दकल्पद्रुमः

वाहिनी || स्त्री (वाहा वाहनानि घोटकादीनि सन्त्यस्यामिति । वाह + इनिः । ङीप् ।)
सेना । (यथा, रघुः । ११ । ६ । “लक्ष्मणानुचरमेव राघवं नेतुमैच्छदृषिरित्यसौ नृपः । आशिषं प्रयुयुजे न वाहिनीं सा हि रक्षणविधौ तयोः क्षमा ॥” * ॥
वाहः प्रवाहोऽस्त्यस्या इति ।)
नदी । (यथा, रामायणे । २ । ८९ । ९ । “उत्तिष्ठत प्रबुध्यध्वं भद्रमस्तु हि वः सदा । नावः समुपकर्षध्वं तारयिष्याम वाहिनीम् ॥”)
सेनाभेदः । तद्यथा । गजाः एकाशीतिः । रथाः एकाशीतिः । अश्वास्त्रिचत्वारिंशदधिक- शतद्वयम् । पदातिकाः पञ्चाधिकचतुःशतम् । समुदायेन दशाधिकाष्टशतं वाहाः सन्त्यस्याम् । इत्यमरभरतौ ॥ (यथा, महाभारते । १ । २ । १९ — २१ । “एको रथो गजश्चैको नराः पञ्च पदातयः । त्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयते ॥ पत्तिस्तु त्रिगुणामेतामाहुः सेनामुखं बुधाः । त्रीणि सेनामुखान्येको गुल्म इत्यभिधीयते ॥ त्रयो गुल्मा गणो नाम वाहिनी तु गणास्त्रयः । स्मृतास्तिस्रस्तु वाहिन्यः पृतनेति विचक्षणैः ॥” प्रवाहशीला । यथा, मार्कण्डेये । ७८ । २९ । “यमुना च नदी जज्ञे कलिन्दान्तरवाहिनी ॥”)



Correction: