संस्कृत-शब्दकोशः

वाहिनी वाहीक

वाहिनीपति

वाचस्पत्यम्

वाहिनीपति ||‍ पु० ६ त० । १ सेनापतौ अमरः । २ समुद्रे च शब्दच० ।


शब्दकल्पद्रुमः

वाहिनीपतिः || पुं, (वाहिन्याः सेनायाः पतिः ।)
सेनापतिः । इत्यमरः ॥ (यथा, महाभारते । ४ । २१ । ९ । “प्रवादेनेह मत्स्यानां राजा नाम्नायमुच्यते । अहमेव हि मत्स्यानां राजा वै वाहिनीपतिः ॥” वाहिन्या नद्याः पतिः ।)
समुद्रः । इति शब्द- रत्नावली ॥



Correction: