संस्कृत-शब्दकोशः

वाहुवार वाह्येन्द्रिय

वाह्य

वाचस्पत्यम्

वाह्य ||‍ न० वाहं चालनमर्हति यत्, वह—ण्यद्वा । १ अश्वादौ याने हेमच० । वहिर्मवः ष्यञ् दिलोपः । २ वहिर्भवे त्रि० । ३ एतत्परत्वे ओष्ठ्यादित्वमित्यन्ये ।


शब्दकल्पद्रुमः

वाह्यं || क्ली (वाह्यते चाल्यते इति वाहि + ण्यत् ।)
यानम् । यथा, हेमचन्द्रे । “यानं युग्यं पत्रं वाह्यं वह्यं वाहनधोरणे ॥”


शब्दकल्पद्रुमः

वाह्यः || त्रि (वह + ण्यत् ।)
वहनीयः । (यथा, रघुः । ६ । १० । “मनुष्यवाह्यं चतुरस्रयान- मध्यास्य कन्या परिवारशोभि । विवेश मञ्चान्तरराजमार्गं पतिंवरा कॢप्तविवाहवेशा ॥” वहिस् + ष्यञ् ।)
वहिः । वाहिर इति भाषा । यथा, स्मृतिः । “अपवित्रः पवित्रो वा सर्व्वावस्थां गतोऽपि वा । यः स्मरेत् पुण्डरीकाक्षं स वाह्याभ्यन्तरः शुचिः ॥”



Correction: