वाचस्पत्यम्
वाह्येन्द्रिय || न० वाह्यपदार्थाना शब्ददीनष्ट ग्रहणयोम्य- मिन्द्रियम् शाक० । शब्दादिग्राहके श्रोत्रादौ इन्द्रिये ।
शब्दकल्पद्रुमः
वा(बा)ह्येन्द्रियं || क्ली (वाह्यमिन्द्रियम् ।)
वहि- रिन्द्रियम् । तद्यथा । चक्षुः । जिह्वा । नासिका । त्वक् । श्रोत्रम् । एतदेकैकगुणाः । यथा, —
“एते तु द्बीन्द्रियग्राह्या अथ स्पर्शान्तशब्दकाः । वाह्यैकैकेन्द्रियग्राह्या गुरुत्वादृष्टभावना ॥” इति भाषापरिच्छेदः ॥